सामग्री पर जाएँ

फेनाशनिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

फेनाशनिः, पुं, (फेन एवाशनिर्वज्रं यस्य । फेनेन वृत्रासुरनाशनादेवास्य तथात्वम् ।) इन्द्रः । इति शब्दमाला ॥ (एतद्वृत्तान्तो यथा, देवी- भागवते । ६ । ६ । ५५ -- ५९ । “इति सञ्चिन्त्य मनसा कथं हन्यां रिपुं रणे । अजेयं सर्व्वदा सर्व्वदेवैश्च दानवैस्तथा ॥ यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महाबलम् । न श्रेयो मम नूनं स्यात् सर्व्वथा रिपुरक्षणात् ॥ अपां फेनं तदापश्यत् समुद्रे पर्व्वतोपमम् । नायं शुष्को न चार्द्रोऽयं न च शस्त्रमिदं तथा ॥ अपां फेनं तदा शक्रो जग्राह किल लीलया । परां शक्तिञ्च सस्मार भक्त्या परमया युतः ॥ स्मृतमात्रा तदा देवी स्वांशं फेने न्यधापयत् । वज्रं तदावृतं तत्र चकार हरिसंयुतम् ॥ फेनावृतं पविं तत्र शक्रंश्चिक्षेप तं प्रति । सहता निपपाताशु वज्राहत इवाचलः ॥”)

"https://sa.wiktionary.org/w/index.php?title=फेनाशनिः&oldid=152715" इत्यस्माद् प्रतिप्राप्तम्