सामग्री पर जाएँ

फेनिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

फेनिका, स्त्री, (फेन इवाकृतिरस्त्यस्याः । फेन + ठन् । टाप् ।) पक्वान्नविशेषः । खाजा इति भाषा । यथा, -- “समिताया घृताद्याया वर्त्तीर्दीर्घाः समाचरेत् । तास्तु सन्निहिता दीर्घाः पीठस्योपरि धारयेत् ॥ वेल्लयेद् वेल्लनेनैता यथैका पर्पटी भवेत् । ततश्छुरिकया तान्तु संलग्नामेव कर्त्तयेत् ॥ ततस्तु वेल्लयेद्भूयः सट्टकेन च लेपयेत् । शालिचूर्णं घृतं तोयं मिश्रितं सट्टकं भवेत् ॥ ततः संवृत्य तां लोप्त्रीं विदधीत पृथक् पृथक् । पुनस्तां वेल्लयेत् लोप्त्रीं यथा स्यान्मण्डलाकृतिः ॥ ततस्तां सुपचेदाज्ये भवेयुश्च पुटाः स्फुटाः । सुगन्धया शर्करया तदुद्धूलनमाचरेत् ॥ सिद्ध्वैषा फेनिकानाम्नी मण्ठकेन समा गुणैः । ततः किञ्चिल्लघुरियं विशेषोऽयमुदाहृतः ॥” इति भावप्रकाशः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

फे(णि)निका¦ स्त्री (णाजा) इति ख्याते पक्वान्नभेदे कृतान्न-धब्दे

२१

८३ ।

३४ पृ॰ दृश्यम्।

"https://sa.wiktionary.org/w/index.php?title=फेनिका&oldid=378608" इत्यस्माद् प्रतिप्राप्तम्