सामग्री पर जाएँ

फेनिलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

फेनिलम्, क्ली, (फेनोऽस्त्यस्येति । फेन + “फेना- दिलच्च ।” ५ । २ । ९९ । इति इलच् ।) कोलि- फलम् । (अस्य पर्य्यायो यथा, -- “पुंसि स्त्रियाञ्च कर्क्कन्धुर्वदरी कोलमित्यपि । फेनिलं कुवलं घोठा सौवीरं वदरं महत् । अजप्रिया कुहा कोली विषमो भयकण्टका ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) मदनफलम् । सफेने, त्रि । इति मेदिनी ॥ (यथा, महाभारते । १ । १५३ । १० । “उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु ॥”)

"https://sa.wiktionary.org/w/index.php?title=फेनिलम्&oldid=152718" इत्यस्माद् प्रतिप्राप्तम्