बंहीयान्
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बंहीयान्, [स्] त्रि, (अयमनयोरतिशयेन बहुलः । बहुल + “द्बिवचनविभज्योपपदे तरबीयसुनौ ।” ५ । ३ । ५७ । इति ईयसुन् । “प्रियस्थिर- स्फिरोरुबहुलेति ।” ६ । ४ । १५७ । इति बंहि- आदेशश्च ।) अतिशयवहुलः । अयमनयो- रतिशयेन बहुः इत्यर्थे बहुशब्दादीयसुप्रत्ययेन निष्पन्नः । इति मुग्धबोधमतम् ॥