बदरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरा, स्त्री (बदति छिन्नायामपि पुनः प्ररोह- णात् स्थिरीभवति या । बद् + बाहुलकादरः । टाप् ।) वराहक्रान्तावृक्षः । (तत्पर्य्यायो यथा, “वाराहीकन्द एवान्यैश्चर्म्मकारालुको मतः । अनूपसम्भवे देशे वाराह इव लोमवान् । विदारी स्वादुकन्दा च सा तु क्रोष्ट्री सिता स्मृता ॥ इक्षुगन्धा क्षीरवल्ली क्षीरशुक्ला पयस्विनी । वाराहवदना गृष्टिर्बदरेत्यपि कथ्यते ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) कार्पासीवृक्षः । इत्यमरः । २ । ४ । ११६ ॥ एलापर्णी । इति मेदिनी । रे, २०७ ॥ विष्णु- क्रान्ता । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरा स्त्री।

कार्पासी

समानार्थक:तुण्डिकेरी,समुद्रान्ता,कार्पासी,बदरा

2।4।116।1।4

तुण्डिकेरी समुद्रान्ता कार्पासी बदरेति च। भारद्वाजी तु सा वन्या शृङ्गी तु ऋषभो वृषः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

बदरा स्त्री।

वाराहीकन्दम्

समानार्थक:विष्वक्सेनप्रिया,गृष्टि,वाराही,बदरा

2।4।151।1।4

विष्वक्सेनप्रिया गृष्टिर्वाराही बदरेत्यपि। मार्कवो भृङ्गराजः स्यात्काकमाची तु वायसी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरा f. the cotton shrub L.

बदरा f. a species of Dioscorea L.

बदरा f. Mimosa Octandra L.

बदरा f. Clitoria Ternatea L.

"https://sa.wiktionary.org/w/index.php?title=बदरा&oldid=379449" इत्यस्माद् प्रतिप्राप्तम्