बधिरः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बधिरः, त्रि, (बध्नाति कर्णमिति । बन्ध + “इषिमदि- मुदीति ।” उणा० १ । ५२ । इति किरच् ।) श्रवणेन्द्रियरहितः । श्रुतिशक्तिहीनः । काला इति भाषा । तत्पर्य्यायः । एडः २ । इत्य- मरः । २ । ६ । ४८ ॥ कल्लः ३ श्रवणापटुः ४ । इति शब्दरत्नावली ॥ उच्चैःश्रवाः ५ । इति संक्षिप्तसारोणादिवृत्तिः ॥ (यथा, मनुः । ११ । ५२ । “एवं कर्म्मविशेषेण जायन्ते सद्बिगर्हिताः । जडमूकान्धबधिराविकृताकृतयस्तथा ॥” बाधिर्य्यनिदानं यथा, -- “यदा शब्दवहं वायुः श्रोत आवृत्य तिष्ठति । शुद्धः श्लेष्मान्वितो वापि बाधिर्य्यं तेन जायते ॥” इति माधवकरः ॥ असाध्यबाधिर्य्यमाह । “बाधिर्य्यं बालवृद्धोत्थं चिरोत्थञ्च विवर्ज्जयेत् ।” इति भावप्रकाशः ॥ * ॥ अस्यौषधम् । “कर्णशूले कर्णनादे बाधिर्य्ये क्षेड एव च । चतुर्ष्वपि च रोगेषु सामात्यं भेषजं स्मृतम् ॥ शृङ्गवेरञ्च मधु च सैन्धवं तैलमेव च । कटूष्णं कर्णयोर्धार्य्यमेतत् स्याद्बेदनापहम् ॥ १ ॥ कर्णशूले कर्णनादे बाधिर्य्ये क्षेड एव च । पूरणं कटुतैलेन हितं वातघ्नमौषधम् ॥ २ ॥ शिखरिक्षारजवारितत्कृतकल्केन साधितं तैलम् । अपहरति कर्णनादं वाधिर्य्यञ्चापि पूरणतः ॥ शिखरी अपामार्गः ॥ ३ ॥ गवां मूत्रेण विल्वानि पिष्ट्वा तैलं विपाचयेत् । सजलञ्च सदुग्धञ्च तद्बाधिर्य्यहरं परम् ॥ क्षीरमत्राजं ग्राह्यम् । बिल्वतैलम् ॥ ४ ॥” इति भावप्रकाशः ॥ यथा च । “शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् । शुष्कं चतुर्गुणं दद्यात्तैलमेतैर्व्विपाचयेत् ॥ बाधिर्य्यं कर्णशूलञ्च पूयस्रावश्च कर्णयोः । क्रिमयश्च विनश्यन्ति तैलस्यास्य प्रपूरणात् ॥” ५ इति गारुडे १९७ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=बधिरः&oldid=506845" इत्यस्माद् प्रतिप्राप्तम्