बधूटिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बधूटिः स्त्री, (अल्पवयस्का बधूः । अल्पार्थे टीः । पक्षे ङीष् । यद्बा, बधू + “वयस्य- चरम इति वाच्यम् ।” ४ । १ । २० । इत्यस्य वार्त्ति० इति ङीप् ।) पुत्त्रभार्य्या । इति भरत धृतरत्नकोषः । सुवासिनी । इति हेमचन्द्रः ॥ अल्पा बधूः । यथा, -- “नूतनजलधररुचये गोपबधूटीदुकूलचौराय । तस्मै नमः कृष्णाय संसारमहीरुहस्य बीजाय ॥” इति भाषापरिच्छेदः । १ ॥

"https://sa.wiktionary.org/w/index.php?title=बधूटिः&oldid=152794" इत्यस्माद् प्रतिप्राप्तम्