बन्धकम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बन्धकम्, क्ली, (बध्नातीति । बन्ध + ण्वुल् ।) ऋणाय स्थापितं वस्तु । बा~धा इति भाषा । इति आधिशब्दनानार्थे अमरः ॥ इदानीमाधि- फलभोग्यं पूर्णकालं दत्त्वा द्रव्यञ्च सामकम् ॥ यदि प्रकर्षितं तत् स्यात्तदा न धनभाग्धनी । ऋणी च न लभेद् बन्धं परस्परमतं विना ॥” अस्यार्थः । फलं भोग्यं यस्यासौ फलभोग्यो बन्ध आधिः स च द्बिविधः सवृद्विकमूल्यापाकरणार्थो वृद्धिमात्रापाकरणार्थश्च तत्र च वृद्धिमूल्यापा- करणार्थं बन्धं पूर्णकालं पूर्णः कालो यस्यासौ पूर्णकालस्तमाप्नु यादृणी । यदा सवृद्धिकं मूल्यं फलद्बारेण धनिनः प्रविष्टन्तदा बन्धमवाप्नुयादि- त्यर्थः वृद्धिमात्रापाकरणार्थन्तु बन्धं सामकं दत्त्वाप्नुयादृणी । समं मूल्यं सममेव सामकम् । अस्यापवादमाह । यदि प्रकर्षितं तत् स्यात्त- द्बन्धकं प्रकर्षितमतिशयितं वृद्धेरभ्यधिकफलं यदि स्यात्तदा न धनभाग्धनी । सामकं न लभेद्बन्धं मूल्यमदत्त्वैवर्णी बन्धमवाप्नुयादिति यावत् । अथाप्रकर्षितं तद्बन्धकं वृद्धयेऽप्य- पर्य्याप्तन्तदा सामकं दत्त्वापि बन्धं लभेताधमर्णः वृद्धिशेषमदत्त्वैव लभेतेत्यर्थः । पुनरुभयत्राप- वादमाह । परस्परमतं विना उत्तमर्णाध- मर्णयोः परस्परानुमत्यभावे यदि प्रकर्षितं इत्याद्युक्तम् । परस्परानुमतौ तूत्कृष्टमपि बन्धकं यावन्मूल्यदानन्तावदुपभुङ्क्ते धनी निकृ- ष्टमपि मूलमात्रदाने नैवाधमर्णो लभते । इति- मिताक्षरा ॥
