बन्धुलः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बन्धुलः, पुं, (बन्धुं लातीति । बन्धु + ला + क ।) असतीसुतः । इत्यमरः । २ । ६ । २६ ॥ (यथा, मृच्छकटिकनाटके चतुर्थे अङ्के । “परगृहललिताः परान्नपुष्टाः परपुरुषैर्जनिताः पराङ्गनासु । परधननिरता गुणेष्ववाच्या गजकलभा इव बन्धुला नमामः ॥”) बन्धूकः । इति शब्दरत्नावली ॥
बन्धुलः, त्रि, (बन्धून् लाति स्नेहेन गृह्णातीति । बन्धु + ला + क ।) सुन्दरः । नम्रः । इत्यजय- पालः ॥
