बन्ध्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बन्ध्यः, त्रि, (बन्ध + यक् ।) ऋतुप्राप्तावधिफल- रहितवृक्षादिः । (यथा, रघुः । १ । ७० । “सिक्तं स्वयमिव स्नेहाद्बन्ध्यमाश्रमपादपम् ॥”) तत्पर्य्यायः । अफलः २ अवकेशी ३ । इत्यमरः । २ । ४ । ७ ॥ विफलः ४ निष्फलः ५ । इति राजनिर्घण्टः ॥ बन्धनीयः । इति बन्धधातोः कर्म्मणि यप्रत्ययः ॥ (यथा, याज्ञवल्क्यः । २ । २४६ । “अबन्ध्यं यश्च बध्नाति बद्धं यश्च प्रमुञ्चति ॥” पुं, निवर्त्तितवारिः सेतुः । यथा, मिताक्षरायाम् । “सेतुश्च द्बिविधो ज्ञेयः खेयो बन्ध्यस्तथैव च । तोयप्रवर्त्तनात् खेयो बन्ध्यः स्यात्तन्निवर्त्तनात् ॥”)
