बन्ध्याकर्कोटकी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बन्ध्याकर्कोटकी, स्त्री, (बन्ध्यायाः कर्कोटकी । पुत्त्रदातृतया बन्ध्यायाः उपकारिणी अतो- ऽस्यास्तथात्वम् ।) तिक्तकर्कोटकी । बा~झ- खखसा इति बा~झचठेल इति बा~झककरोल इति च हिन्दीभाषा । तत्पर्य्यायः । बन्ध्या २ देवी ३ नागारातिः ४ नागहन्त्री ५ मनोज्ञा ६ पथ्या ७ दिव्या ८ पुत्त्रदा ९ सकन्दा १० श्रीकन्दा ११ कन्दवल्ली १२ ईश्वरी १३ सुगन्धा १४ सर्पदमनी १५ विषकण्टकिनी १६ परा १७ कुमारी १८ भूतहन्त्री १९ । अस्या गुणाः । तिक्तत्वम् । कटुत्वम् । उष्णत्वम् । कफापहत्वम् । स्थावरादिविषघ्नत्वम् । रसायनत्वञ्च । इति राजनिर्घण्टः ॥ तत्पर्य्यायगुणाः । “बन्ध्याकर्क्कोटकी देवी कन्या योगेश्वरीति च । नागारिर्भक्तदमनी विषकण्टकिनी तथा ॥ बन्ध्याकर्क्कोटकी लघ्वी कफनुद्व्रणशोधिनी । सर्पदर्पहरी तीक्ष्णा विसर्पविषहारिणी ॥” इति भावप्रकाशः ॥
