सामग्री पर जाएँ

बभ्रुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बभ्रुः, पुं, (बिभर्त्ति भरति वा । भृ + “कुभ्रश्च ।” उणा० १ । २३ । इति कुर्द्वित्वञ्च ।) अग्निः । शिवः । (यथा, महाभारते १३ । महादेवस्य सहस्रनामकथने । १७ । १४८ । “शृङ्गीशृङ्गप्रियो बभ्रू राजराजो निरामयः ॥”) विष्णुः । (यथा, महाभारते १३ । विष्णोः सहस्रनामकथने । १४९ । २६ । “रुद्रो बहुशिरा बभ्रुर्व्विश्वयोनिः शुचिश्रवाः ॥”) विशालः । नकुलः । इति मेदिनी ॥ (यथा, मार्कण्डेये । १५ । ९ । “सञ्जायते महावक्त्रो मूषिको बभ्रुसन्निभः ॥”) मुनिविशेषः । इति हेमचन्द्रः ॥ देशभेदः । इति शब्दरत्नावली ॥ सितावरशाकः । इति राज- निर्घण्टः ॥ खलतिः । इति हेमचन्द्रः । ३ । ११७ ॥ (कपिलो वर्णः । इति मेधातिथिः ॥ तद्गुणयुक्ते तु वाच्यलिङ्गः । यथा, मनुः । ४ । १३० । “नाक्रामेत्कामतच्छायां बभ्रुणो दीक्षितस्य च ॥” लोमपादसुतः । यथा, भागवते । ९ । २४ । १ । “रोमपादसुतो बभ्रुर्बभ्रोः कृतिरजायत ।” देवावृधसुतः । यथा, तत्रैव । ९ । २४ । ९ । “वभ्रुर्देवावृधसुतस्तयोः श्लोकौ पठन्त्यमू ॥” ययातिपुत्त्रस्य द्रुह्योः सुतः । यथा, तत्रैव । ९ । २३ । १४ । “द्रुह्योश्च तनयो बभ्रुः सेतुस्तस्यात्मजस्ततः ॥” पञ्चगन्धर्व्वपतिषु अन्यतरः । यथा, रामायणे । ४ । ४१ । ४२ । “तत्र गन्धर्व्वपतयः पञ्च सूर्य्यसमप्रभाः । शैलूषो ग्रामणीः शिक्षः शुको बभ्रुस्तथैव च ॥” विश्वामित्रपुत्त्रभेदः । यथा, महाभारते । १३ । ४ । ५० । “अक्षीणश्च शकुन्तश्च बभ्रुः कालपथस्तथा ॥” विश्वगर्भस्य पुत्त्रः । स तु यादवानामन्यतमः । यथा, हरिवंशे । ९४ । ४८ । “वसुर्बभ्रुः सुषेणश्च सभाक्षश्चैव वीर्य्यवान् । यदुप्रवीरा विख्याता लोकपाला इवापरे ॥” यथा च माघे । २ । ४० । “आलप्यालमिदं बभ्रोर्यत्स दारानपाहरत् ॥” स च विनष्टप्राये यादवकुले पथि गच्छन् दस्युभि- र्हतः । तत्कथा च महाभारते । १६ । मौषल- पर्व्वणि द्रष्टव्या ॥ स्त्री, कपिला गौः । सा च निशि अजानता पृषध्रेण खड्गेन हता । यथा, भागवते । ९ । २ । ६ । “खड्गमादाय तरसा प्रलीनोडुगमे निशि । अजानन्नहनद्बभ्रोः शिरः शार्द्दूलशङ्कया ॥”)

बभ्रुः, त्रि, (बिभर्त्तीति । भ्रू + “कुभ्रश्च ।” उणा० १ । २३ । इति कुर्द्वित्वञ्च ।) पिङ्गलः । इत्य- मरः ॥ (यथा, कुमारे । ५ । ८ । “बबन्ध बालारुणबभ्रुवल्कलं पयोधरोत्सेधविशीर्णसंहतिः ॥” यथा च रघुः । १५ । १६ । “धूमधूम्रो वसागन्धी ज्वालाबभ्रुशिरोरुहः ॥”)

"https://sa.wiktionary.org/w/index.php?title=बभ्रुः&oldid=152851" इत्यस्माद् प्रतिप्राप्तम्