बभ्रुवाहनः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बभ्रुवाहनः, पुं, मणिपुरस्य राजविशेषः । स च चित्राङ्गदायां अर्ज्जुनाज्जातः । यथा, -- “करेणुमत्यां नकुलो निरमित्रं तथार्ज्जुनः । इरावन्तमुलूप्यां वै सुतायां बभ्रुवाहनम् ॥ मणिपुरपतेः सोऽपि तत्पुत्त्रः पुत्त्रिकासुतः ॥” इति श्रीभागवते । ९ । २२ । ३२ ॥ अपि च । वैशम्पायन उवाच । “श्रुत्वा तु नृपतिः प्राप्तं पितरं बभ्रुवाहनः । निर्ययौ विनयेनाथ ब्राह्मणार्थपुरःसरः ॥ मणिपुरेश्वरन्त्वेवमुपायातं धनञ्जयः । नाभ्यनन्दत् स मेधावी क्षात्त्रधर्म्ममनुस्मरन् ॥” “भर्त्तारं निहतं दृष्ट्वा पुत्त्रञ्च पतितं भुवि । चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरे ॥” इति महाभारते । १४ । ७९ अध्यायः ॥ (अस्यार्ज्जुनादिना युद्धादिकं तत्रैव विस्तरशो द्रष्टव्यम् ॥)
