बलजम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बलजम्, क्ली, (बलात् जायते इति । बल + जन + ड ।) क्षेत्रम् । पुरद्वारम् । इत्यमरः । ३ । ३ । ३१ ॥ शस्यम् । (धान्यराशिः । इति वैजयन्ती ॥ यथा, माघे । १४ । ७ । “त्वं समीरण इव प्रतीक्षितः कर्षकेण बलजान् पुपूषता ॥”) युद्धम् । इति मेदिनी ॥ बलजन्ये, त्रि ॥
