बलदः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बलदः, पुं, (बलं ददातीति । बल + दा + कः ।) जीवकः । इति राजनिर्घण्टः । पौष्टिककर्म्माङ्ग- होमाग्निः । यथा । पौष्टिके बलदः स्मृतः । इति तिथ्यादितत्त्वम् ॥ (वृषभः । यथा, कथा- सरितसागरे । ३७ । १५३ । “अन्येद्युः प्रणयक्रीडाव्याजाच्च मम सूत्रकम् । गलेऽबध्नादहं दान्तस्तत्क्षणं बलदोऽभवम् ॥”) बलदातरि, त्रि ॥ (यथा, ऋग्वेदे । ३ । ५३ । १८ । “बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि ॥”)
