सामग्री पर जाएँ

बलभद्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बलभद्रः, पुं, (बलं भद्रं श्रेष्ठमस्य । यद्बा, बलमस्या- स्तीति बलः । अर्श आद्यच् । बलो बलवानपि भद्रः सौम्यः ।) बलदेवः । इत्यमरः । १ । १ । २४ ॥ अनन्तः । बलशाली । इति हेमचन्द्रः । २ । १३९ ॥ लोध्रः । इति शब्दचन्द्रिका ॥ गवयः । इति राजनिर्घण्टः ॥ बलदेवस्य नाम्नां कारणानि यथा, -- “कृतं निरूपितं नाम्नां कनिष्ठस्य यथाश्रुतम् । ज्येष्ठस्य हलिनो नाम्नः सङ्केतं शृणु मन्मुखात् ॥ गर्भसङ्कर्षणादेव नाम्ना सङ्कर्षणः स्मृतः । नास्त्यन्तोऽस्यैव वेदेषु तेनानन्त इति स्मृतः ॥ बलदेवो बलोद्रेकाद्धली च हलधारणात् । सितिवासो नीलवासात् मुषली मुषलायुधात् । रेवतीसहसम्भोगाद्रेवतीरमणः स्वयम् ॥ रोहिणीगर्भवासात्तु रौहिणेयो महामतिः । इत्येवं ज्येष्ठपुत्त्रस्य श्रुतं नाम निवेदितम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३ अध्यायः ॥ विष्णुपूजनोक्ताष्टदलपद्मस्थयोगिविशेषः । यथा, “सर्व्वत्र मण्डलं कार्य्यं बासुदेवस्य पूजने । एवमेव नृपश्रेष्ठ ! निष्फलं चान्यथेतरत् ॥ बलभद्रश्च कामश्च अनिरुद्धस्तदुद्भवः । नारायणस्तथा ब्रह्मा विष्णुः षष्ठः प्रकीर्त्तितः ॥ नरसिंहो बराहश्च योगिनोऽष्टौ प्रकीर्त्तिताः । पूर्ब्बाद्यष्टदलेष्वेतान् वर्णतो मन्त्रतः पृथक् ॥ पूजयेत् कर्णिकामध्ये वासुदेवन्तु नायकम् । विमला नायिका तस्य वासुदेवस्य कीर्त्तिता । बलभ्रद्रमुखानान्तु योगिन्यः शृणु पार्थिव ! ॥ आदावुत्कर्षिणी ज्ञेया ज्ञाना पश्चात् क्रिया परा । योगा प्रज्ञा तथेशानी अनुप्राती तथा स्तनी ॥ सर्व्वाश्चतुर्भुजाः प्रोक्ताः शङ्खचक्रगदाधराः । योगिन्यो बलभद्रन्तु कामं विधियुते तथा ॥ विधे रूपन्तु पूर्ब्बोक्तं हलञ्च मुषलन्तथा । शङ्खञ्चक्रञ्च धत्ते स गदां पार्श्वस्थितान्तथा ॥” इति कालिकापुराणे ८२ अध्यायः ॥ (पर्व्वतविशेषः । यथा, भागवते । ५ । २० । २६ । “एतेषां वर्षमर्य्यादा गिरयो नद्यश्च सप्त सप्तैव । ईशान उरुशृङ्गो बलभद्रः शतकेसरः सहस्र- स्रोतो देवपालो महानस इति ॥”)

"https://sa.wiktionary.org/w/index.php?title=बलभद्रः&oldid=152877" इत्यस्माद् प्रतिप्राप्तम्