सामग्री पर जाएँ

बलरामः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बलरामः, पुं, (रम + भावे घञ् । बलेन रामो रमणं यस्य ।) बलदेवः । यथा, -- “बलरामानुजः श्रीमान् गजेन्द्रस्तुतपादकः ॥” इति नारदपञ्चरात्रे चतुर्थरात्रीयः ८ अध्यायः ॥ अस्य ध्यानम् । “अन्तरे दिव्य उद्याने हरिचन्दनसंज्ञके । तत्राधस्तात् स्वर्णपीठे विचित्रे मणिमण्डपे ॥ तन्मध्ये मणिमाणिक्यदिव्यसिंहासनोज्ज्वले । तत्रोपरि च रेवत्या सङ्कर्षणहलायुधम् ॥ ईश्वरस्याभयानन्तमभिन्नगुणरूपिणम् । शुद्धस्फटिकसंकाशं रक्ताम्बुजदलेक्षणम् ॥ नीलचेलधरं स्निग्धं दिव्यगन्धानुलेपनम् । कुण्डलाश्लिष्टसद्गण्डं दिव्यमूषाम्बरस्रजम् ॥ मधुपाने सदासक्तं मदाघूर्णितलोचनम् । मुषलं दक्षिणे पाणौ बलरामं सदा स्मरेत् ॥” इति कश्चिन्निबन्धः ॥

"https://sa.wiktionary.org/w/index.php?title=बलरामः&oldid=152881" इत्यस्माद् प्रतिप्राप्तम्