बलविन्यासः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बलविन्यासः, पुं, (बलानां सैन्यानां विशेषेण दुर्भेद्यत्वेन न्यासः स्थापनम् ।) युद्धार्थं सैन्यस्य देशविशेषे विभज्य दुर्लङ्घ्यत्वनिमित्तं स्थापनम् । तत्पर्य्यायः । व्यूहः २ । इत्यमरः । २ । ८ । ७९ ॥ (बलविन्यासास्तु मकरपद्मादिभेदात् बहवः । तत्र संक्षेपतो मनुना युद्धयात्रार्थं केचि- न्निर्द्दिष्टाः । यथा, मानवे । ७ । १८७ -- १९१ । “दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा । वराहमकराभ्यां वा सूच्या वा गारुडेन वा ॥ यतश्च भयमाशङ्कत् ततो विस्तारयेद्बलम् । पद्मेन चैव व्यूहेन निविशेत सदा स्वयम् ॥ सेनापतिबलाध्यक्षौ सर्व्वदिक्षु निवेशयेत् । यतश्च भयमाशङ्केत् प्राचीं तां कल्पयेद्दिशम् ॥ गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः । स्थाने युद्धे च कुशलानभीरूनविकारिणः ॥ संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून् । सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥”)
