सामग्री पर जाएँ

बलाशः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बलाशः, पुं, (बलमश्नातीति । बल + अश + अण् ।) श्लेष्मा । इति हेमचन्द्रः । ३ । १२६ ॥ (यथा, “बलाश एवायतमुन्नतञ्च शोफं करोत्यन्नगतिं निवार्य्य ॥” कण्ठगतरोगविशेषः । तल्लक्षणं यथा, -- “गले च शोफं कुरुतः प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम् । मर्म्मच्छिदं दुस्तरमेतमाहु- र्ब्बलाशसंज्ञं निपुणा विकारम् ॥” इति सुश्रुते निदानस्थाने षोडशेऽध्याये ॥ दन्त्यसान्तोऽप्ययं शब्दो दृश्यते ॥)

"https://sa.wiktionary.org/w/index.php?title=बलाशः&oldid=152912" इत्यस्माद् प्रतिप्राप्तम्