सामग्री पर जाएँ

बलिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बलिः, पुं, (बल्यते दीयते इति । बल दाने + “सर्व्व- धातुभ्य इन् ।” उणा० ४ । ११७ । इतीन् ।) करः । राजग्राह्यो भागः । (यथा, मनुः । ७ । ८० । “सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्बलिम् ॥” “राजा शक्तैरमात्यैर्वर्षग्राह्यं धान्यादिभाग- मानयेत् ।” इति कुल्लूकभट्टः ॥) उपहारः । पूजासामग्री । इत्यमरभरतौ ॥ (यथा, मार्क- ण्डेये । ९३ । ८ । “ददतुस्तौ बलिञ्चैव निजगात्रासृगुक्षितौ ॥”) चामरदण्डः । बलिवैश्वनामकपञ्चमहायज्ञान्त- र्गतभूतयज्ञः । इति हेमचन्द्रः । ३ । ४८६ ॥ (गृहस्थो हि पञ्चसूनापापेन प्रतिदिनं संबध्यते । तन्निष्कृ- त्यर्थं प्रत्यहं पञ्च महायज्ञाः कर्त्तव्याः । यथाह मनुः । ३ । ६८ -- ७१ । “पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन् ॥ तासां क्रमेण सर्व्वासां निष्कृत्यर्थं महर्षिभिः । पञ्च कॢप्ता महायज्ञा प्रत्यहं गृहमेधिनाम् ॥ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥ पञ्चैतान् यो महायज्ञान् न हापयति शक्तितः । स गृहेऽपि वसन्नित्यं सूनादोषैर्न लिप्यते ॥” “पशुवधस्थानं सूना । सूना इव सूना हिंसा- स्थानगुणयोगात् । चुल्ल्यादयः पञ्च गृहस्थस्य जीवहिंसास्थानानि । चुल्ली उद्बाहनी । पेषणी दृषदुपलात्मिका । उपस्करः गृहोपकरण- कुण्डसंमार्जन्यादिः । कण्डनी उदूखलमूषले । उदकुम्भो जलाधारकलशः ।” इति तट्टीकायां कुल्लूकभट्टः ॥ * ॥ गृहस्थानां बलिरूपभूत- यज्ञस्य प्रतिदिनकर्त्तव्यतया तस्य विस्तृतिरुच्यते । गृहस्थः अनन्यचित्तो देवताध्यानपर एव होमान् कृत्वा प्राच्यादिषु दिक्षु बलिं हरेत् । तत्प्रकरणमाह । प्राच्यां इन्द्राय नमः । इन्द्र- नरकस्वर्गसेवार्थं संसाराय प्रवर्त्तितः । यतस्तत्कर्म्मभोगेन गमनागमनं भवेत् ॥ सत्येन सात्त्वतग्रन्थे स विधिर्नैव शङ्कर ! । प्रवृत्तितो निवृत्तिस्तु यत्रापि सात्त्विकी क्रिया । एवं नानाविधं कर्म्म पशोरालभनादिकम् । कामाशयः फलाकाङ्क्षी कृत्वाज्ञानेन मानवः ॥ पश्चाज्ज्ञानासिना च्छित्त्वा भ्रान्त्याशां तामसीं सदा । यमभीतिहरं भक्त्या यदि गोविन्दमाश्रयेत् ॥” इति पाद्मोत्तरखण्डे । १०४ । १०५ । अध्यायौ ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बलिः [baliḥ], [बल्-इन्]

An oblation, a gift or offering (usually religious); नीवारबलिं विलोकयतः Ś.4.21; U.1.5.

The offering of a portion of the daily meal of rice, grain, ghee &c. to all creatures, (also called भूतयज्ञ), one of the five daily Yajñas to be performed by a householder; see Ms.3.67,91; it is usually performed by throwing up into the air, near the housedoor, portions of the daily meal before partaking of it; यासां बलिः सपदि मद्गृहदेहलीनां हंसैश्च सारसगणैश्च विलुप्तपूर्वः Mk.1.9.

Worship, adoration; Rām.2.3. 8; अवचितबलिपुष्पा वेदिसंमार्गदक्षा Ku.1.6; Me.57; अव- चितानि बलिकर्मपर्याप्तानि पुष्पाणि Ś.4.

Fragments of food left at a meal.

A victim offered to a deity.

A tax, tribute, impost; also 'religious tax'; (cf. सीता, भागो, बलिः, करो......च राष्ट्रम्); Kau. A.2.6.24; प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् R.1.18; Ms.7.8;8.37; प्रजिघाय बलिं तथा Śiva B.29.42; न चाजिहीर्षीद् बलिमप्रवृत्तम् Bu. Ch.2.44.

The handle of a chowrie.

N. of a celebrated demon; येन बद्धो बली राजा दानवेन्द्रो महाबलः Rakṣābandhanamantra. [He was a son of Virochana, the son of Prahlāda. He was a very powerful demon and oppressed the gods very much. They, therefore, prayed to Viṣṇu for succour, who descended on earth as a son of Kaśyapa and Aditi in the form of a dwarf. He assumed the dress of a mendicant, and having gone to Bali prayed him to give him as much earth as he could cover in three steps. Bali, who was noted for his liberality, unhesitatingly acceded to this apparently simple request. But the dwarf soon assumed a mighty form, and began to measure the three steps. The first step covered the earth, the second the heavens; and not knowing where to place the third, he planted it on the head of Bali and sent him and all his legions to the Pātāla and allowed him to be its ruler. Thus the universe was once more restored to the rule of Indra; cf. छलयसि विक्रमणे बलिमद्भुतवामन Gīt. 1; R.7.35; Me.59. Viṣṇu is said to still guard his door in Pātāla. He is one of the seven Chirajivins; cf. चिरजीविन्]. -लिः f.

A fold, wrinkle &c. (usually written वलि q. v.).

The fold of skin in stout persons or females.

The ridge of a thatched roof.-Comp. -करः a.

paying tribute.

offering sacrifices.

producing wrinkles. -करम्भः a sacrificial cake. -कर्मन् n.

offering oblations to all creatures.

the act of worshipping.

payment of tribute.-क्रिया a line on the forehead; नतभ्रुवो मण्डयति स्म विग्रहे बलिक्रिया चातिलकं तदास्पदम् Ki.8.52.

दानम् presentation of an offering to a deity.

offering oblations to all creatures. -द्विष्, -ध्वंसिन् m. an epithet of Viṣṇu.-नन्दनः, -पुत्रः, -सुतः epithets of Bāṇa, the son of Bali.-पुष्टः a crow; भ्रमेण द्रष्टुं बलिपुष्टलोकः समापतत्याशु तमिस्ररूपः Rām. Ch.6.25. -प्रियः the Lodhra tree. -बन्धनः an epithet of Viṣṇu. -भुज् m.

a crow; अहो अधर्मः पालानां पीव्नां बलिभुजामिव Bhāg.1.18.33.

a sparrow.

a crane.-भृत् a. tributary. -भोजः, -भोजनः a crow; द्वितीयो बलिभोजानां (पन्थाः) Rām.4.58.25. -मन्दिरम्, -वेश्मन्, -सद्मन् n. the lower regions, the abode of Bali. -मुखः a monkey. -विधानम् the offering of an oblation.-व्याकुल a. engaged in worship or in offering oblations to all creatures; आलोके ते निपतति पुरा सा बलिव्याकुला वा Me.87. -षड्भागः the sixth part as a tribute; अरक्षितारं राजानं बलिषड्भागहारिणम् Ms.8.38. -हन् m. an epithet of Viṣṇu. -हरणम् an offering of oblations to all creatures. -होमः the offering of oblations.

"https://sa.wiktionary.org/w/index.php?title=बलिः&oldid=382107" इत्यस्माद् प्रतिप्राप्तम्