सामग्री पर जाएँ

बहुप्रतिज्ञ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बहुप्रतिज्ञः, त्रि, (बह्व्यः प्रतिज्ञाः यस्मिन् ।) अनेक-पदसङ्कीर्ण-पूर्ब्बपक्ष-विशिष्ट-व्यवहारः । यथा । “यत्तु अनेकपदसङ्कीर्णः पूर्ब्बपक्षो न सिद्ध्यतीति । तत्र यद्यनेकवस्तुसङ्कीर्ण इत्युच्यते तदा न दोषः । मदीयमनेन हिरण्यं वासो रूपकादि वापहृतमित्येवंविधस्यादुष्टत्वात् । ऋणादानपदसङ्करे पक्षाभास इति चेत् तदपि न मदीया रूपका अनेन वृद्ध्या गृहीताः सुवर्णञ्चास्य हस्ते निक्षिप्तं मदीयं क्षेत्रम- पहरति चेत्यादीनां पक्षत्वमिष्यते एव । किन्तु क्रियाभेदात् क्रमेण व्यवहारो न युगपदित्येतावत् । यथाह कात्यायनः । ‘बहुप्रतिज्ञं यत् कार्य्यं व्यवहारेषु निश्चितम् । कामन्तदपि गृह्णीयाद्राजा तत्त्वबुभुत्सयेति ॥’ तस्मादनेकपदसङ्कीर्णः पूर्ब्बपक्षो युगपन्न सिध्य- तीति तस्यार्थः ।” इति मिताक्षरा ॥ अनेक- प्रतिज्ञायुक्ते, त्रि ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बहुप्रतिज्ञ¦ पु॰

७ ब॰। अनेकविषयकप्रतिज्ञायुक्ते व्यवहारे यथामदीयं रूपकमनेन गृहीतं, सुवर्णञ्चास्य, हस्ते निक्षिप्तंन ददाति, मदीयं क्षेत्रमपहरतीत्ये बमादीनां पक्षत्वमिष्यतएव किन्तु क्रियाभेदात् क्रमेण व्यवहारो न युगपदित्येव
“बहुप्रतिज्ञं यत् कार्य्यं व्यवहारेषु निश्चितम्। कामंतदपि गृह्णीयात् राजा तत्त्वबुन्भुत्सया” कात्यायनोक्तेःमिता॰

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बहुप्रतिज्ञ¦ mfn. (-ज्ञः-ज्ञा-ज्ञं)
1. Complicated, containing more than one circumstance.
2. (In law.) Comprising many counts, (a plaint, &c.) E. बहु many, प्रतिज्ञा assent.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बहुप्रतिज्ञ/ बहु--प्रतिज्ञ mfn. containing more than one proposition , complicated W.

बहुप्रतिज्ञ/ बहु--प्रतिज्ञ mfn. (in law) comprising many counts (as a plaint) Ya1jn5. Sch.

"https://sa.wiktionary.org/w/index.php?title=बहुप्रतिज्ञ&oldid=384072" इत्यस्माद् प्रतिप्राप्तम्