बहुला
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बहुला, स्त्री, (बहूनर्थान् लाति या । बहु + ला + क । टाप् ।) नीलिका । एला । (यथा, “एला स्थूला च बहुला पृथ्वीका त्रिपुटापि च । भद्रैला बृहदेला च चन्द्रबाला च निष्कुटिः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) गौः । इति मेदिनी । ले, ११७ ॥ देवीविशेषः । यथा, -- “दृष्टा सा तेन मुनिना निःसृत्य रविमण्डलात् । बहुला ह्यागता तूर्णं प्रस्थं मानसभूभृतः ॥ प्रत्यहं तत्र सावित्री गायत्त्री वहुला तथा । सरस्वती च द्रुपदा पञ्चैता मानसाचले ॥” इति कालिकापुराणे । २३ अध्यायः ॥ (नदीभेदः । यथा, मार्कण्डेये । ५७ । ३९ । “चीनाश्चैव तुखाराश्च बहुला वाह्यतो नराः ॥” स्वनामख्याता उत्तमराजपत्नी । यथा, तत्रैव । ६९ । ६ । “बाभ्रव्यां बहुलां नाम उपयेमे स धर्म्मवित् । उत्तानपादतनयः शचीमिन्द्र इवोत्तमः ॥”)
बहुलाः, स्त्री, कृत्तिकानक्षत्रम् । नित्यबहुवचना- न्तोऽयं शब्दः । इति मेदिनी । ले, ११७ ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बहुला स्त्री।
एला
समानार्थक:पृथ्वीका,चन्द्रबाला,एला,निष्कुटी,बहुला
2।4।125।1।5
पृथ्वीका चन्द्रवालैला निष्कुटिर्बहिलाथ सा। सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटिः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्
बहुला स्त्री।
कृत्तिका
समानार्थक:बहुला
3।3।199।2।1
अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि। बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु॥
पदार्थ-विभागः : , द्रव्यम्, तेजः, नक्षत्रम्
बहुला स्त्री।
गौः
समानार्थक:माहेयी,सौरभेयी,गो,उस्रा,मातृ,शृङ्गिणी,अर्जुनी,अघ्न्या,रोहिणी,इडा,इला,सुरभि,बहुला
3।3।199।2।1
अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि। बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु॥
अवयव : क्षीरशयः
पति : वृषभः
स्वामी : गवां_स्वामिः
वृत्तिवान् : गोपालः
: श्रेष्ठा_गौः, गोभेदः, द्विवर्षा_गौः, एकवर्षा_गौः, चतुर्वर्षा_गौः, त्रिवर्षा_गौः, वन्ध्या_गौः, अकस्मात्_पतितगर्भा_गौः, कृतमैथुना_गौः, वृषयोगेन_गर्भपातिनी, गर्भग्रहणयोग्या_गौः, प्रथमं_गर्भं_धृतवती_गौः, अकोपजा_गौः, बहुप्रसूता_गौः, दीर्घकालेन_प्रसूता_गौः, नूतनप्रसूता_गौः, सुशीला_गौः, स्थूलस्तनी_गौः, द्रोणप्रिमितदुग्धमात्रा_गौः, बन्धनस्थिता_गौः, प्रतिवर्षं_प्रसवित्री_गौः, अजातशृङ्गगौः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बहुला f. a cow L.
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Bahulā : f.: Name of a river.
Listed by Saṁjaya among the rivers of the Bhāratavarṣa; people use its water for drinking 6. 10. 26, 13; all the rivers listed here are described as mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).
_______________________________
*2nd word in left half of page p394_mci (+offset) in original book.
Mahabharata Cultural Index

Vedic Rituals Hindi
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बहुला स्त्री.
कृत्तिकानक्षत्र, मा.श्रौ.सू. 1०.3.1.11।