सामग्री पर जाएँ

बहुव्रीहिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बहुव्रीहिः, पुं, षट्समासान्तर्गतसमासविशेषः । (मुग्धबोधमते ।) अस्य साङ्केतिकसंज्ञा हः । यथा, अन्यार्थानां दानां हसंज्ञः । उदाहरणं यथा । पीतमम्वरं यस्यासौ पीताम्बरो हरिः । इति वोपदेवः ॥ स च तुल्याधिकरणानां पदानां अन्यार्थत्वे स्यादिति बोध्यम् । यथा पीताम्बरादि । मिन्नाधिकरणानान्तु पुत्त्राय धनमस्य शिष्याय विद्या अस्य इत्यादौ न स्यात् । समातृक इत्यु- दाहरणेन कदाचिद्भिन्नाधिकरणानाञ्च स्यात् धर्म्मे वृत्तिर्यस्यासौ धर्म्मवृत्तिः । एवं कामवृत्तिः उरसि लोमा कण्ठे काल इत्यादि । एवं पीता- म्बर इत्युदाहरता विशेषणविशेष्ययोः समासे विशेषणमेव पूर्ब्बं स्यादिति सूचितम् । तेन पीताम्बर इत्यत्र अम्बरपीत इति न स्यात् । एवं त्रिलोचनः चतुर्भुजः दीर्घकेशीत्यादि । एवं पीताम्बर इत्युदाहरता क्वचित् क्तान्तविशेषणं पूर्ब्बं स्यात् क्वचित् परं वा स्यात् इति सूचि- तम् । तेन अव्याहतस्वैरगतेरिति । अथेप्सितं भर्त्तुरुपस्थितोदयमिति । स वृत्तचूडश्चलकाक- पक्षकैरित्यादि रघुः ॥ सुखजातः सुरापीतो नृजग्धो माल्यधारक इति । एवं जातदन्तः दन्तजातः जातश्मश्रुः श्मश्रुजातः पीततैलः तैलपीतः पीतघृतः घृतपीतः ऊढभार्य्यः भार्य्योढः गतभार्य्यः भार्य्यागतः गतार्थः अर्थ गतः अग्न्याहितः आहिताग्निः पुत्त्रजातः जातपुत्त्रः जातयामः यामजातः दुःखजातः जातदुःखः गडुकण्ठः कण्ठगडुः इत्यादिबोध्यम् । एवमुद्यतचक्रः चक्रोद्यतः उद्यतासिः अस्युद्यतः उद्यतगदः गदोद्यतः उद्यतस्वड्गः खड्गोद्यत इति । आयुधेभ्यो नित्यं पूर्ब्बमिति जौमराः ॥ यथा उद्यतचक्र इत्यादि । एवं सर्व्वनामसक- लात् पूर्ब्बम् । सर्व्वश्वेतः । संख्यासर्व्वनाम्नोः संख्यापूर्ब्बं स्यात् । द्विपरः त्रिपूर्ब्बः । सप्तम्य- न्तमचन्द्रादेः । सप्तम्यन्तं पदं पूर्ब्बं स्यान्न चन्द्रादेः । धर्म्मे वृत्तिर्यस्यासौ धर्म्मवृत्तिः उरसि लोमा कण्ठेकाल इत्यादौ उरसिजवत् क्तेर- लुक् । चन्द्रादेस्तु चन्द्रशेखरः चन्द्रचूडः पद्म- नाभः शूलपाणिः कुशहस्तः । प्रियो वा । गुडप्रियः प्रियगुडः । किञ्च आरूढो वानरो यं स आरूढवानरो वृक्षः । दृष्टः कृष्णो येन स दृष्टकृष्णो भक्तः । दत्ता भूमिर्यस्मै स दत्त- भूमिर्व्विप्रः । निर्गताः पक्षिणो यस्मात् वृक्षात् स निर्गतपक्षी वृक्षः । चत्वारो भुजा यस्यासौ चतुर्भुजो विष्णुः । बहूनि नक्षत्राणि यत्र तद्बहु- नक्षत्रमाकाशम् । इति द्बितीयान्ताद्यन्य- पदार्था बहुव्रीहयः सर्व्वैर्मन्यन्ते । स्वमते तु प्रथमान्तान्यपदार्थोऽपि यथा सह मात्रा वर्त्तते योऽसौ समातृकः एवं सपक्षकः सनामकं ब्राह्मणमानिनीत्यादि । इति दुर्गादासः ॥ * ॥ (बहवो ब्रीहयो यस्येति व्युत्पत्त्या) प्रचुर- धान्ययुक्ते, त्रि । यथा, -- “द्बन्द्बो द्बिगुरपि चाहं मद्गेहे नित्यमव्ययी- भावः । तत्पुरुष ! कर्म्म धारय येनाहं स्यां बहुव्रीहिः ॥” इति प्राचीनाः ॥

"https://sa.wiktionary.org/w/index.php?title=बहुव्रीहिः&oldid=153087" इत्यस्माद् प्रतिप्राप्तम्