बह्वाशी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बह्वाशी, [न्) त्रि, (बहु अश्नातीति । बहु + अश् + णिनि ।) बहुभोजनशीलः । यथा, चाणक्ये । ६९ । “बह्वाशी स्वल्पसन्तुष्टः सुनिद्रः शीघ्रचेतनः । प्रभुभक्तश्च शूरश्च ज्ञातव्याः षट् शुनो गुणाः ॥” (बह्वी आशा यस्य ।) बह्वाशाविशिष्टः ॥ (धृतराष्ट्रपुत्त्रविशेषे, पुं । यथा, महाभारते । १ । ११७ । १९ । “आदित्यकेतुर्बह्वाशी नागदन्तोऽग्रयाय्यपि ॥”)
