बाधिर्य्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बाधिर्य्यम्, क्ली, (बधिरस्य भावः । बधिर + ष्यञ् ।) बधिरस्य भावः । कर्णरोगविशेषः । तस्य निदानम् । यथा, -- “यदा शब्दवहं वायुः स्रोत आवृत्य तिष्ठति । शुद्धः श्लेष्मान्वितो वापि बाधिर्य्यं तेन जायते ॥” इति माधवकरः ॥ अस्यौषधं यथा, -- “शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् । शुक्रं चतुर्गुणं दद्यात्तैलमेतैर्विपाचयेत् ॥ बाधिर्य्यं कर्णशूलञ्च पूयस्रावश्च कर्णयोः । क्रमयश्च विनश्यन्ति तैलस्यास्य प्रपूरणात् ॥” अपि च । “प्रस्थे द्वे गण्डमालानां क्वाथयेद्द्रोणमम्भसाम् । चतुर्भागावशेषेण तैलप्रस्थं विपाचयेत् । काञ्जिकस्याढकं दत्त्वा पिष्टान्येतानि दापयेत् ॥ पुनर्नवा गोक्षुरकं सैन्धवं त्र्युषणं वचा । सरलं सुरदारुश्च बृहती कण्टकारिका ॥ नस्यपानाद्धरत्येव कर्णशूलं हनुग्रहम् । बाधिर्य्यं सर्व्वरोगञ्च अभ्यङ्गाच्च महेश्वर ! ॥” इति गारुडे १९८ अध्यायः ॥ (ससम्प्राप्तिकारणमस्य यथा, -- “स एव शब्दाभिवहा यदा शिवाः कफानुयातो व्यनुसृत्य तिष्ठति । तदा नरस्याप्रतिकारसेविनो भवेत्तु बाधिर्य्यमसंशयं खलु ॥” इत्युत्तरतन्त्रे विंशतितमेऽध्याये सुश्रुतेनोक्तम् ॥ अस्य चिकित्सा यथा, -- “सामान्यतो विशेषेण बाधिर्य्ये पूरणं शृणु । गवां मूत्रेण विल्वानि पिष्ट्वा तैलं विपाचयेत् ॥ सजलञ्च सदुग्धञ्च बाधिर्य्ये कर्णपूरणम् । सितामधुकविम्बीभिः सिद्धं वाजे पयस्यथ ॥ सिद्धं वा विल्वनिःक्वाथे शीतीभूतं तदुद्धृतम् । पुनः पचेद्दशक्षीरं सितामधुकचन्दनैः ॥ विल्वाम्बु गाढं तत्तैलं बाधिर्य्ये कर्णपूरणम् । वक्ष्यते यः प्रतिश्याये विधिः सोऽप्यत्र पूजितः । वातव्याधिषु यश्चोक्तो विधिः स च हितो भवेत् ॥” इति च तत्रैकविंशतितमेऽध्याये तेनैवोक्तम् ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बाधिर्य्य¦ न॰ बधिरस्य भावः ब्राह्मणादित्वात् प्यञ्। श्रवण-शक्तिराहित्ये रोगमेदे बधिरशब्दे दृश्यम्।
