सामग्री पर जाएँ

बार्हस्पत्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बार्हस्पत्यः, पुं, (बार्हस्पत्यं बृहस्पतिप्रोक्तं शास्त्रं अधीयमानत्वेनास्त्यस्येति । अर्श आदित्वा- दच् ।) नास्तिकः । यथा, हेमचन्द्रः । “स्याद्वादवाद्यार्हतः स्याच्छून्यवादी तु सौगतः । नैयायिकस्त्वक्षपादो योगः सांख्यस्तु कापिलः ॥ वैशेषिकः स्यादौलूक्यो बार्हस्पत्यस्तु नास्तिकः । चार्व्वाको लौकायतिकश्चैते षडपि तार्किकाः ॥” (बृहस्पतिना प्रोक्तमिति । बृहस्पति + ण्यः ।) नीतिशास्त्रे, क्ली । इति केचित् ॥ बृहस्पतेरिद- मिति वा । बृहस्पति + “दित्यदित्यादित्यपत्यु- त्तरपदाण् ण्यः ।” ४ । १ । ८५ । इति ण्यः ।) बृहस्पतिसम्बन्धिनि, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=बार्हस्पत्यः&oldid=153137" इत्यस्माद् प्रतिप्राप्तम्