सामग्री पर जाएँ

बालखिल्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बालखिल्यः, पुं, बालखिल्यमुनिः । यथा, -- “विधिना निर्म्मिता पूर्ब्बं वेदी परमपावनी । अग्निवेश्यादिमुनयो बालखिल्यादयः स्थिताः ॥” इति बृहद्रामायणे चित्रकूटमाहात्म्ये १ सर्गः ॥ (बालखिल्यास्तु अङ्गुष्ठपरिमिताः षष्टिसहस्र- संख्यकाः । यथा, मार्कण्डेये । ५२ । २४ । “क्रतोश्च सन्ततिर्भार्य्या बालखिल्यानसूयत । षष्टिर्यानि सहस्राणि ऋषीणामूर्द्वरेतसाम् ॥” अङ्गुष्ठपरिमितमुक्तमेतेषान्देहपरिमाणम् । यथा, महाभारते । १ । ३१ । ८ -- ९ । “अथापश्यदृषीन् ह्नस्वान् अङ्गुष्ठोदरवर्ष्मणः । पलाशवृन्तिकामेकां सहितान् वहतः पथि ॥ क्लिश्यमानान् मन्दबलान् गोष्पदे संप्लुतोदके ॥”)

"https://sa.wiktionary.org/w/index.php?title=बालखिल्यः&oldid=153152" इत्यस्माद् प्रतिप्राप्तम्