सामग्री पर जाएँ

बालग्रहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बालग्रहः, पुं, (बालानां बालकानां ग्रहः ।) बालकहन्तृग्रहविशेषः । (यथा, मार्कण्डेये । ९२ । २७ । “बालग्रहाभिभूतानां बालानां शान्ति- कारकम् ॥”) एतेषां विवरणम् । यथा, -- “बाल ग्रहा अनाचारात् पीडयन्ति शिशुं यतः । तस्मात्तदुपसर्गेभ्यो रक्षेद्बालं प्रयत्नतः ॥” अथ बालग्रहाणां नामान्याह । “स्कन्दग्रहस्तु प्रथमं स्कन्दापस्मार एव च । शकुनी रेवती चैव पूतना गन्धपूतना ॥ पूतना शीतपूर्व्वा च तथैव मुखमण्डिका । नवमो नैगमेयश्च प्रोक्ता बालग्रहा अमी ॥” अथ ग्रहाणामुत्पत्तिमाह । “नवस्कन्दादयः प्रोक्ता बालानां ये ग्रहा अमी । श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः ॥ एते स्कन्दस्य रक्षार्थं कृत्तिकोमाग्निशूलिभिः । सृष्टाः शरवणस्थस्य रक्षितस्य स्वतेजसा ॥ स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा । बिभर्त्ति चापरां संज्ञां कुमार इति संग्रहः ॥” अयं हि कार्त्तिकेयादन्यः । “स्कन्दापस्मारसंज्ञो यः सोऽग्निना तत्समद्युतिः । स च स्कन्दसखो नाम्ना विशाख इति चोच्यते ॥ ग्रहाः स्त्रीविग्रहा ये ते नानारूपाः प्रकीर्त्तिताः । देवानां कृत्तिकानां ते भागा राजसतामसाः ॥ नैगमेयस्तु पार्व्वत्या सृष्टो ह्येषां ततो ग्रहः । कुमारस्य हि देवस्य गुहस्यात्मसमोऽस्ति वै ॥ ततो भगवति स्कन्दे सुरसेनापतौ कृते । उपतस्थुर्ग्रहा ह्येते दीप्तशक्तिधरं गुहम् ॥ ऊचुः प्राञ्जलयश्चैनं वृत्तिर्नो दीयतामिति । तेषामर्थे ततः स्कन्दः शिवं देवमचोदयत् ॥ ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत् । तिर्य्यग्योनिं मानुषञ्च दैवञ्च त्रितयं जगत् ॥ परस्परोपकारेण वर्त्तते धार्य्यते तथा । देवा नरान् प्रीणयन्ति तिर्य्यग्योनींस्तथैव च ॥ यथाकालं प्रवृत्तास्तु उष्मवर्षाहिमानिलैः । दिवसे ब्राह्मणान् भोजयेत् ततः सम्पद्यते शुभम् ।

"https://sa.wiktionary.org/w/index.php?title=बालग्रहः&oldid=153157" इत्यस्माद् प्रतिप्राप्तम्