सामग्री पर जाएँ

बालतन्त्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बालतन्त्रम्, क्ली, (बालाय बालकरक्षार्थं तन्त्रमुपायः शास्त्रं वा ।) गर्भिणीचर्य्या । तत्पर्य्यायः । कुमारभृत्या २ गर्भिण्यवेक्षणम् ३ । इति त्रिकाण्डशेषः ॥ (अस्य विवरणन्तु सुश्रुते सूत्र- स्थाने १ अध्याये । यथा, “शल्यं शालाक्यं कायचिकित्सा भूतविद्या कौमारभृत्यमगद- तन्त्रं वाजीकरणतन्त्रमिति ॥” कौमारभृत्यस्य वा बालतन्त्रस्य लक्षणमाह तत्रैव । “कौमार- भृत्यं नाम कुमारभवनधात्रीक्षीरदोषसंशोध- नार्थं दुष्टस्तन्यग्रहसमुत्थानाञ्च व्याधीनामुप- शमनार्थम् ॥” बालतन्त्राणि कानि तान्याह तत्रैव ३ अध्याये । “नवग्रहाकृतिज्ञानं स्कन्दस्य च निषेधनम् । अपस्मारशकुन्योश्च रेवत्याश्च पुनः पृथक् ॥ पूतनायास्तथान्धाया मण्डिका शीतपूतना । नैगमेयचिकित्सा च ग्रहोत्पत्तिः सयोनिजा ॥ कौमारतन्त्रमित्येतत् शारीरेषु प्रकीर्त्तितम् ॥” एतेषां विवरणन्तु बालग्रहशब्दे द्रष्टव्यम् ॥)

"https://sa.wiktionary.org/w/index.php?title=बालतन्त्रम्&oldid=153163" इत्यस्माद् प्रतिप्राप्तम्