बालरोग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बालरोगः, पुं, (बालस्य रोगः ।) बालकस्य व्याधिः । तस्य निदानं लक्षणानि चाह । “धात्र्यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषजैस्तथा । दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रदूष्यति ॥ मिथ्याहारविहारिण्या दुष्टा वातादयः स्त्रियाः । दूषयन्ति पयस्तेन जायन्ते व्याधयः शिशोः ॥ * ॥ वातदुष्टं शिशुः स्तन्यं पिबन् वातगदातुरः । क्षामस्वरः कृशाङ्गः स्याद्बद्धविण्मूत्रमारुतः ॥ स्विन्नो भिन्नमलो बालः कामलापित्तरोगवान् । तृष्णालुरुष्णसर्व्वाङ्गः पित्तदुष्ठं पयः पिबन् ॥ श्लेष्मदुष्टं पिबन् क्षीरं लालालुः श्लेष्मरोगवान् । निद्रार्द्दितो जडः शूनवक्त्राक्षश्छर्द्दनः शिशुः ॥ ज्वराद्या व्याधयः सर्व्वे वक्ष्यन्ते महतान्तु ये । रसाञ्जनं विशेषेण पानलेपनयोर्हितम् ॥ शङ्खयष्ट्यञ्जनैश्चूर्णं शिशूनां गुदपाकनुत् ॥’ अञ्जनं रसाञ्जनम् । गुदपाके ॥ * ॥ ‘शङ्खसौवीरयष्ट्याह्वैर्लेपो देयोऽहिपूतने ॥’ अहिपूतने ॥ * ॥ ‘पारिगर्भिकरोगे तु पूज्यते वह्निदीपनम् ॥’ पारिगर्भिके ॥ * ॥ ‘दन्तपालिन्तु मधुना चूर्णेन प्रतिसारयेत् । धातकीपुष्पपिप्पल्योर्धात्रीफलरसेन वा ॥ दन्तोत्थानभवा रोगाः पीडयन्ति न बालकम् । जाते दन्ते हि शाम्यन्ति यतस्तद्धेतुका गदाः ॥’ दन्तोद्भेदजरोगेषु ॥ * ॥ ‘सौवर्णं सुकृतं चूर्णं कुष्ठं मधु घृतं वचा । मत्स्याक्षकः शङ्खपुष्पी मधु सर्पिः सकाञ्चनम् ॥ अर्कपुष्पीमधु घृतं चूर्णितं कतकं वचा । सहेमचूर्णं कैटर्य्यं श्वेता दूर्व्वा घृतं मधु ॥ चत्वारोऽभिहिताः प्राशा अर्द्धश्लोकसमापनाः । कुमाराणां वपुर्मेधाबलपुष्टिकराः स्मृताः ॥’ सावर्णचूर्णम् । चतुर्ष्वपि योगेषु मारित- सुवर्णचूर्णम् । मत्स्याक्षकः ब्राह्मी इति लोके वकम इत्येके । अर्कपुष्पी अर्कसदृशपुष्पलता । कैटर्य्यं कट्फलम् । श्वेता दूर्व्वाविशेषणं वचेति केचित् । संवत्सरं यावदेते योगाः प्रयोज्याः द्वादशवर्षाणीति केचित् ॥ * ॥ ‘बालानाञ्च वपुर्मेधाबलपुष्टिकराः स्मृताः । लाक्षारसे समे तैलं मस्तुन्यथ चतुर्गुणे ॥ रास्नाचन्दनकुष्ठाह्वावाजिगन्धानिशायुतैः । शताह्वादारुयष्ट्याह्वमुर्व्वातिक्ताहरेणुभिः ॥ संसिद्धं ज्वररक्षोघ्नं बलवर्णकरं शिशोः ॥” लाक्षादितैलं बालेषु ॥ * ॥ इति भावप्रकाशे बालरोगाधिकारः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बालरोग¦ पु॰ भाबप्र॰ उक्ते बालस्य रोगभेदे तन्निदानादितत्रोक्तं यथा
“अथ बालरोगाणां निदानानि लक्षणानि चाह।
“धात्र्यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषलैस्तथा। दोषा देहेप्रकुप्यन्ति ततः स्तन्थ प्रदुष्यति। मिथ्याहारविहारिण्यादुष्टा वातादयस्त्रयः। दूषयन्ति पयस्तेन जायन्तेव्याधयः शिशोः। ह्रीवेरं शर्करा क्षौद्रं लीढं तृष्णाहरं परम्। ” इति तृष्णायाम्।
“वातदुष्टं शिशुःस्तन्यं पिबन् वातबदातुरः। क्षामस्तरः कृशाङ्गः स्वा-द्वद्धविण्मूत्रमासतः। खिन्नो भिन्नमलो बालः कामला-पित्तरोगवान्। तृष्णालुरूष्मसर्वाङ्गः पित्तदुष्टं पयः पि-वन्। श्लेष्मदुष्टं पिबन् क्षीरं लालायुक् श्लेष्मरोगवान्। निद्रार्द्दितो जडः शूनो वक्राक्षश्छर्दनः शिशुः। ज्व-राद्या व्याधयः सर्वे वक्ष्यन्ते महतान्तु ये। बालाना-मपि ते तद्वद्बोद्धव्या भिषगुत्तमैः। बालानामेव ये रोमाभवन्ति महतां न च। तालुकण्टकमुख्यां{??}बचारकयत्नतः। ” तत्रादौ तालुकण्टकमाह। तालुम सेकफः व्रुद्धः कुरुते तालुकण्टकम्। तेन तानुप्रदेशस्यनिम्नता मूर्घ्नि जायते। तालुपातात् स्तनवेषः कृच्छ्रात्पानं शकृद्दूवम्। तृडक्षिकण्ठास्यरुज ग्रीवादुर्द्वरता-वमिः। ” पानं स्तनस्य, शकृद्दूवं द्रवरूपम्। महापद्म-माह।
“वीसर्पस्तु शिशोः प्राणनाशनः शीर्षव{??}जः। पद्मवर्णो महापद्मरोयो
२ दोषत्रयो{??}[Page4572-a+ 38] हृदयं याति हृदयाच्च गुदं ब्रजेत्। ” पद्मवर्णः लोहितवर्ण तत्र शीर्षजो वीसर्पः। शङ्खार्भ्या हृदयं याति हृद॰याच्च गुदं व्रजेत् एवं वस्तिजो गुदं याति गुदतः हृदयंहृदयाच्छिरो याति इति बोद्धव्यम्। कुकूणकमाह
“कुकूणकं
३ क्षीणदोषाच्छिशूनामेव वर्त्मनि। जायतेसरुज नेत्रं कण्डूरं प्रस्रवेद्बहु। शिशुः कुर्य्याल्ललाटा-क्षीकूटनासाप्रघर्षणम्। शक्तो नार्कप्रभां द्रष्टुं नचाक्ष्युन्मीलनक्षमः। ” कुकूणकं (कोथु) इति लोके। अथ तुण्डीगुदप्राकमाह।
“वातेनाध्मापिना नाभिःसरुजा तुण्डिरुच्यते। बालस्य गुदपाकाख्यो
४ व्याधिःपित्तेन जायते। ” अहिपूतनमाह। शकृन्मूत्रसमायुक्तेधौते पाने शिशोर्भयेत्। खिन्ने वा स्नाप्यमानस्य कण्डूरक्तकफाद्भवा। कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्चजायते। एकीभूतं व्रणं घोरं तं विद्यादहिपूतनम्
५ । ” स्विन्ने स्वेदितिए। अजगल्लीमाह। स्निग्धा सवर्णाग्रथिता नीरुजा मुद्गसन्निभा। कफवातोत्थिता ज्ञेयाबालानामजगल्लिका
६ । ग्रथिता गुम्फितेव मुद्गसन्निभामुद्गाकृतिः। परिगर्भिकमाह मातुः। कुमारो गर्भिण्यास्तन्यं प्रायः पिबन्नपि। कासाग्निसादवमथुतन्द्राकार्श्या-ऽरुचिभ्रमैः। युज्यते कोष्टवृद्ध्या च तमाहुः परिगर्भि-कम्
७ । रोगं परिभवाख्यञ्च
८ तत्र युञ्जीत दीपनम्। पिबन्नपीत्यपिशब्दादपिबन्नपि परिगर्भिकः (अहीडीति)लोके। परिभवाख्यं परिभवेति नामान्तरम्। अथ दन्तो-द्भेदकान् रोगानाह
“दन्तोद्भेदः शिशीः सर्वं रोगाणांकारणं स्मृतम्। विशेषात् ज्वरविड्भेदकासच्छर्दिशिरो-रुजाम्। अभिष्यन्दस्य षोथक्याधीसर्पस्य च जायते। कारणभित्यन्वयः पोथक्या वर्त्मरोगविशेषस्य। ”
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बालरोग/ बाल--रोग m. disease of children Cat.
