सामग्री पर जाएँ

बालव्यजन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बालव्यजनम्, क्ली, (बालस्य चमरीपुच्छस्य वालेन वा निर्म्मितं व्यजनम् ।) चामरम् । तत्पर्य्यायः । रोमगुच्छः २ प्रकीर्णकम् ३ । इति हेमचन्द्रः ॥ (यथा, कुमारे । १ । १३ । “लाङ्गूलविक्षेपविसर्पिशोभै- रितस्ततश्चन्द्रमरीचिगौरैः । यस्यार्थयुक्तं गिरिराजशब्दं कुर्व्वन्ति बालव्यजनैश्चमर्य्यः ॥”) बालकस्य व्यजनञ्च ॥ “बालव्यजनमोजस्यं मक्षिकादीन् व्यपोहति ।” इति द्रव्यगुणः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बालव्यजन¦ न॰ बाला एव व्यजनम्। चामरे हेमच॰। ‘ कुर्वन्ति बालव्यजनैश्चमर्य्यः’ इति कुमारः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बालव्यजन¦ n. (-नं) A Chowrie, a whisk, a fly-flapper. E. बाल hair and व्यजन a fan; it being made usually of the tail of the Yak.

"https://sa.wiktionary.org/w/index.php?title=बालव्यजन&oldid=386958" इत्यस्माद् प्रतिप्राप्तम्