बालिखिल्या
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बालिखिल्याः, पुं, पुलस्त्यकन्यायां सन्नत्यां क्रतोः षष्टिसहस्रसंख्यकपुत्त्रा ऋषिविशेषाः । यथा, -- “प्रीत्यां पुलस्त्यो भगवान् दत्तात्रिमसृजत् प्रमुः । पूर्ब्बजन्मनि सोऽगस्त्यः स्मृतः स्वायम्भुवेऽन्तरे ॥ वेदबाहुं तथा कन्यां सन्नतिर्नाम नामतः । पुत्त्राणां षष्टिसाहस्रं सन्नतिः सुषुवे क्रतोः ॥ ते चोर्द्ध्वरेतसः सर्व्वे बालिखिल्या इति स्मृताः ॥” इति कौर्म्म १२ अध्यायः ॥ अपि च । “क्रतोश्च सन्नतिर्भार्य्या बालिखिल्यानसूयत । धष्टिर्यानि सहस्राणि ऋषीणामूर्द्ध्वरेतसाम् ॥” इति मार्कण्डेयपुराणे रुद्रसर्गः । ५२ । २४ ॥ तेषामङ्गुष्ठपरिमाणस्य प्रमाणं यथा, -- “अथापश्यदृषीन् ह्रस्वानङ्गुष्ठोदरवर्ष्मणः । पलाशवृन्तिकामेकां सहितान् वहतः पथि ॥ प्रलीनान् स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् । क्लिश्यमानान् मन्दबलान् गोष्पदे संप्लुतोदके ॥” इति महाभारते । १ । ३१ ॥ बालखिल्योऽपि पाठः । यथा, “ऋग्वदान्तर्गत- बालखिल्यमेकादशसूक्तं बालखिल्याः शंसन्ति प्राणा वै बालखिल्याः । इति चरणव्यूहभाष्यम् ॥
