सामग्री पर जाएँ

बालिशः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बालिशः, त्रि, (बाड + इन् । डस्य लत्वं । बालिं वृद्धिं श्यतीति । बालि + शो + आतोऽनुपेति कः ।) शिशुः । (यथा, भागवते । ४ । १४ । २३ । “बालिशा वत यूयं वा अधर्म्मे धर्म्ममानिनः ॥” बालिशा शिशुवृत्तय इत्यर्थः ॥) मूर्खः । इति मेदिनी । शे, २६ ॥ (यथा, मनुः । ३ । १७६ । “अपाङ्क्त्यो यावतः पाङ्क्त्यान् भुञ्जानाननु- पश्यति । तावतां न फलं तत्र दाता प्राप्नोति बालिशः ॥” “बालिशोऽज्ञः ।” इति तट्टीका ॥)

"https://sa.wiktionary.org/w/index.php?title=बालिशः&oldid=153220" इत्यस्माद् प्रतिप्राप्तम्