बालिहन्ता
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बालिहन्ता, पुं, (बालेर्बालिनो वा बानरराजस्य हन्ता ।) श्रीरामचन्द्रः । इति शब्दरत्नावली ॥ (बालिवधकथा यथा, रामायणे । ४ । १६ । २७ -- ३६ । “सूर्य्यपुत्त्रो महावीर्य्यः सुग्रीवः परिहीयत । वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः ॥ बालिनं प्रति सामर्षो दर्शयामास राघवम् । वृक्षैः सशाखैः शिखरैर्वज्रकोटिनिभैर्नखैः ॥ मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः । तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव ॥ तौ शोणिताक्तौ युध्येतां वानरौ वनचारिणौ । मेघाविव महाशब्दैस्तर्जमानौ परस्परम् ॥ हीयमानमथापश्यत् सुग्रीवं वानरेश्वरम् । प्रेक्षमाणं दिशश्चैव राघषः स मुहुर्मुहुः ॥ ततो रामो महातेजा आर्त्तं दृष्ट्वा हरीश्वरम् । स शरं वीक्षते वीरो बालिनो वधकाङ्क्षया ॥ ततो धनुषि सन्धाय शरमाशीविषोपमम् । पूरयामास तच्चापं कालचक्रमिवान्तकः ॥ तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः । प्रदुद्द्रुवुर्मृगाश्चैव युगान्त इव मोहिताः ॥ मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसन्निभः । राघवेण महाबाणो बालिवक्षसि पातितः ॥ ततस्तेन महातेजा वीर्य्ययुक्तः कपीश्वरः । वेगेनाभिहतो बाली निपपात महीतले ॥) ओड्रदेशान्तर्गतग्रामविशेषश्च ॥
