सामग्री पर जाएँ

बालुकायन्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बालुकायन्त्र¦ न॰

६ त॰।

१ औषधपाकार्थे यन्त्रभेदे।
“भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपिके। कुपिकाकण्ठपर्य्यन्तं बालुकाभिश्च पूरिते। भेषजं कूपिकासंस्थवह्निना यत्र पच्यते। बालुकायन्त्रमेतिद्धि यन्त्रतन्त्रबुधैःस्मृतम्” भावप्र॰।

२ कालज्ञापने रङ्गना॰ प्रदर्शिते यन्त्र-भेदे
“ससूत्ररेणुगर्भैश्च सम्यक् कालं प्रसाधयेत्” सू॰ सि॰व्याख्यायां
“सूत्राकारेण रेणवः सिकतांशागर्भे उदरेयस्यैतादृशं यन्त्रं बालुकायन्त्रं प्रसिद्धम्” रङ्गनाथः।

"https://sa.wiktionary.org/w/index.php?title=बालुकायन्त्र&oldid=387372" इत्यस्माद् प्रतिप्राप्तम्