सामग्री पर जाएँ

बालेयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बालेयः, त्रि, (बालाय हितः । बाल + ढञ् ।) मृदुः । बालहितः । इति मेदिनी ॥ (बलये उपहाराय हितः । बलि + छदिरुपधि- बलेर्ढञ् ।” ५ । १ । १३ । इति ढञ् । तण्डुलः ॥ यथा, सिद्धान्तकौमुद्याम् । “बालेयास्तण्डुलाः ॥” बलियोग्यः । यथा, रघौ । १४ । ७७ । “पुष्पं फलञ्चार्त्तवमाहवन्त्यो बीजञ्च बालेयमकृष्टरोहि । विनोदयिष्यन्ति नवाभिषङ्गा- मुदारवाचो मुनिकन्यकास्त्वाम् ॥” वितुन्नकनाम्नो वृक्षस्य त्वचि क्ली । तत्पर्य्यायो यथा, -- “कुटन्नटं दासपुरं बालेयं परिपेलवम् । प्लवगोपुरगोनर्द्दकैवर्त्तीमुस्तकानि च ॥ मुस्तावत् पेलवपुटं शुक्राभं स्याद्वितुन्नकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=बालेयः&oldid=153227" इत्यस्माद् प्रतिप्राप्तम्