बाल्मीकिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बाल्मीकिः, पुं, बल्मीकस्यापत्यम् । (बल्मीक + इञ् ।) बल्मीकप्रभवो यस्मात् तस्माद्बाल्मीकि- रित्यसौ इति ब्रह्मवैवर्त्तोक्तेः । बल्मीकप्रभवत्वेन गौणी पुत्त्रादिवद्गौणमस्य बल्मीकापत्यत्वं गृही- त्वैव साधुरपत्यार्थः । यद्वा बल्मीक इति ऋषि- विशेषस्य संज्ञेत्याहुः ॥ मुनिविशेषः । यथा, -- “तपःस्वाध्यायनिरतं तपस्वी वाग्विदाम्बरम् । नारदं परिपप्रच्छ बाल्मीकिर्मुनिपुङ्गवम् ॥” इति रामायणप्रथमश्लोकः ॥ अपि च । ततस्तदनुग्रहलब्धं रामचरितं सर- हस्यं निरवशेषं तत्प्रसादादेव सम्यक् विज्ञाय भूलोकवर्त्तिनां चतुर्णां वर्णानां तापत्रयविमो- चनाय ब्रह्मांशभूत एव भगवान् प्राचेतसो बाल्मीकिः स्वकृतशतकोटिरामायणसारभूतं चतुर्षिंशत्यक्षरगायत्त्र्याख्यापरब्रह्मविद्याविलास भूतं रामायणं चतुर्विंशतिसहस्रश्लोकरूपं कुश- लवाभ्यामग्राहयत् । इति तट्टीका ॥ अपि च । “नारायणात्मकाः सर्व्वे तेषां रामोऽग्रजोऽ- भवत् । रावणान्तकरो राजा रघूणां वंशवर्द्धनः ॥ बाल्मीकिर्यस्य चरितं चक्रे भार्गवसत्तमः ॥”) इति मात्स्ये १३ अध्यायः ॥
