सामग्री पर जाएँ

बाहुकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बाहुकः, पुं, नलराजा । तत्पर्य्यायः । पुण्यश्लोकः २ अश्ववित् ३ नैषधः ४ । इति त्रिकाण्डशेषः ॥ (पुष्करेण हृतराज्यो हि नलः ग्रहवैगुण्यात् विपिने दमयन्तीमपहाय प्रगच्छन् दावानल- परीतमनलभयादाक्रोशन्तं कर्कोटकनामानं नागमवलोक्य तत उद्धृतवान् । अथ प्रसन्न- स्यास्य पन्नगस्योपदेशात् ऋतुपर्णस्य राज्ञो नगरं गत्वा बाहुक इत्यभिहितस्तस्यैव राज्ञः घोटकपरिचर्य्यायां नियुक्तोऽभवत् । यदुक्तं महाभारते । ३ । ६७ । १-७ । “तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः । ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि ॥ स राजानमुपातिष्ठत् बाहुकोऽहमितिब्रुवन् । अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः ॥ अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च । अन्नसंस्कारमपि च जांनाम्बन्यैर्विशेषतः ॥ यानि शिल्पानि लोकेऽस्मिन् यच्चैवान्यत् सुदु- ष्करम् । सर्व्वं यतिष्ये तत् कर्त्तुमृतुपर्ण ! भरस्व माम् ॥ ऋतुपर्ण उवाच । वस बाहुक ! भद्रन्ते सर्व्वमेतत् करिष्यसि । शीघ्रयाने सदा बुद्धिर्ध्रियते मे विशेषतः ॥ स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम । भवेयुरश्वाध्यक्षोऽसि वेतनं ते शतं शताः ॥ त्वामुपस्थास्यतश्चव नित्यं वार्ष्णेयजीवलौ । एताभ्यां रंस्यसे सार्द्धं वस वै मयि बाहुक ! ॥” कौरव्यकुलोद्भवो नागभेदः । यथा महा- भारते । १ । ५७ । १३ । “बाहुकः शृङ्गवेरश्च धूर्त्तकः प्रातरातकौ । कौरव्यकुलजास्त्वेते प्रविष्टा हव्यबाहनम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=बाहुकः&oldid=153245" इत्यस्माद् प्रतिप्राप्तम्