बाहुजः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बाहुजः, पुं, (ब्रह्मणो बाहुभ्यां जायते यः । बाहु + जन् + ड । “ब्राह्मणोऽस्य मुखमासीत् बाहू राजन्यः स्मृतः । ऊरुस्तदस्य यद्वैश्यः पद्भ्यां शूद्रोऽभ्यजायत ॥” इति श्रुतेस्तथात्वम् ।) क्षत्त्रियः । इत्यमरः । २ । ८ । १ । (यथा, -- “वत्स ! वाराणसीं गच्छ त्वं विश्वेश्वरवल्लभाम् । तत्र नाम्ना दिवोदासः काशिराजोऽस्ति- बाहुजः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) कीरः । स्वयंजाततिलः । इति मेदिनी । जे, २७ । बाहुजाते त्रि ॥
