बाहुयुद्ध
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बाहुयुद्धम्, क्ली, (बाह्वो र्बाहुभ्यां वा युद्धम् ।) भुजाभ्यां संग्रामः । मल्लयुद्धम् । तत्पर्य्यायः । नियुद्धम् २ ॥ तस्य क्रमो यथा, -- “कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सकङ्कटैः । सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ॥ क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्वनैः । तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ॥ शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः । जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः ॥ तद्युद्धमभवद्घोरमशस्त्रं बाहुतेजसा । बलप्राणेन शूराणां समाजोत्सवसन्निधौ ॥” इति विराटपर्व्वणि १२ अध्यायः ॥ सकङ्कटः कङ्कटः करघर्षणजः किणस्तत्सहि- तैरित्यर्थः । कृतप्रतिकृतैः परप्रयुक्तिप्रतिकृतैः । चित्रैर्विचित्रैर्बन्धैरिति शेषः । सन्निपातेत्यादि । एते मल्लानां शिक्षाविशेषाः । सन्निपातैः परस्परसङ्घघातैः । अवधूतैर्बद्धमुष्टिभुजाघातैः । प्रमाथैः पातयित्वा पेषणैः । उन्मथनैः अन्त- रीक्षे भुजाभ्यां मथनैः । क्षेपणैः स्थानात् प्रच्यावनैः । बद्धाङ्गुलिकरो मुष्टिः । “अवाङ्मुखं स्कन्धगतं भ्रामयित्वा तथैव यः । क्षिप्तस्य शब्दः स भवेद्बराहोद्धूतनिस्वनः ॥ तर्जन्यङ्गुष्ठमध्यन प्रसारितकरो हि यः । सम्प्रहारस्तलाख्यस्तु संग्रहो वज्रमिष्यते ॥” अद्धचन्द्रतुल्यमल्लमुष्टिर्वज्रमित्यर्थः । “प्रसृताङ्गुलिहस्तेन प्रसृष्टिः प्रहृतिः स्मृता । द्बिगुणीकृतबाहुर्यस्तदीयार्थं यथाबलम् ॥ प्रहारः स शलाका स्यात् पादोद्धूतः पदा- हतम् ॥” जानुभिश्चाश्मनिघोषैः पाषाणघोरसदृशध्व- निभिः करणैर्यान्यवघट्टनानि तैः । बलप्राणेन बलोत्कर्षेण । इति तट्टीका ॥ (यथा, मार्क- ण्डेयपुराणे । ८३ । १३ । “ततः सिंहः समुत्पत्य गजकुम्भान्तरस्थितः । बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥”)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बाहुयुद्ध नपुं।
बाहुयुद्धम्
समानार्थक:नियुद्ध,बाहुयुद्ध
2।8।106।2।2
समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः। नियुद्धं बाहुयुद्धेऽथ तुमुलं रणसङ्कुले॥
पदार्थ-विभागः : , क्रिया
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बाहुयुद्ध¦ न॰
३ त॰। नियुद्धे अमरः। तत्प्रकारः भा॰ वि॰
१३ अ॰ यथा
“कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः। सन्निपातावधू-तेश्च प्रमाथोन्मथनैस्तथा। क्षेपणैर्मुष्टिभिचैव वरा-होद्धूतनिःस्वनैः। तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैवच। शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः। जानुभि-श्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः। तद्युद्धमभवद्घोर-मशस्त्रं बाहुतेजसा। बलप्राणेन शूराणां समाजोत्सवसन्निधौ। अराजत जनः सर्वः सोत्क्रुष्टनिनदोत्थितः। बलिनोः संयुगे राजन्! वृत्रवासवयोरिव। प्रकर्षणाकर्ष-णयोरभ्याकर्षविकर्षणैः। आकर्षतुरथान्योन्यं जानु-भिश्चापि जघ्नतुः”। मू॰
“कृतं क्वचिद्देशे निपीडनं प्रतिकृतंतस्य शोधनम्। सुसङ्कटैः मुष्टिग्रहणेन कृशीकृतैः सकङ्क-टैरिति पाठे सकवचैः मकिणैर्वा
“कङ्कटो बाहुवरणेकवचे कठिने किणे” इति विश्वः सन्निपातोऽङ्गसंघट्टनम्अबधूतं तेनैव दूरीकरणं प्रमाथादय उक्ता मल्लशास्त्रे
“निपात्य पेषणं भूमौ प्रमाथ इति कथ्यते। यत्तूत्था-याङ्गमथनं तदुन्मथनमुच्यते। क्षेपणं कथ्यते यत्तु-स्थानात् प्रच्यावनं हठात्। उभयोर्भुजयोर्मुष्टिरुरोमध्येनिपात्यते। मुष्टिरिच्यते तज्ज्ञैर्गल्लविद्याविशारदैः। अ-वाङ्मुखं स्कन्धगतं भ्रामयित्वा तथैव यः। क्षिप्तस्य शब्दःस भवेद्वराहोद्धूतनिःस्वनः। तलैर्वज्रनिपातैर्वज्रवद्दृढ-पातैश्चपेष्टैः।
“अङ्गुल्यः प्रसृतास्तास्तु प्रसृष्टा या उदी-रिताः। ऋज्वी दृढा रुषा क्षिप्तशालका साङ्गुली स्मृता”। तस्यानखपातैः पादोद्धूतैः पादप्रसारणेनाक्षेपैः जानुभिःशिरोभिश्च कृतैरवघट्टनैरास्फालनैः अश्मनिर्घोषैरित्युभय-विशेषणम्। अशस्त्रं निन्द्यं यथोक्तं तत्रैव
“बाहुयुद्धं हिभल्लानामशस्त्रमृषिभिः स्मृतम्। मृतस्य तत्र न स्वर्गो यशो-निहापि विद्यते” इति। बलप्राणेन बलेन शारीर-बलेन प्राणेन मानसबलेन च। सोत्क्रुष्टनिनदःहीहीशब्दोच्चाराणेन खज्जितस्थ समुत्यापनम्। तत्स-[Page4574-b+ 38] हितः।
“आकृष्य क्रोडीकरणं प्रकर्षणमुदाहृतम्। आकर्षणं लीलयैव सन्मुखीकरणं स्मृतम्। पुरः पश्चात्पार्श्वयोश्चाभ्याकर्षो भ्रमणं तथा। पश्चात् प्रपातनं वेगा-द्विकर्षणमुदाहृतम्” नीलक॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बाहुयुद्ध¦ n. (-द्धं) Close fight, personal struggle, boxing, wrestling. E. बाहु the arm and युद्ध fight.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बाहुयुद्ध/ बाहु--युद्ध n. " -aarm-fight " , a close fight MBh. Katha1s.
