बीभत्सः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बीभत्सः, पुं, (बीभत्स्यतेऽनेन । वध + सन् + करणे घञ् ।) अर्ज्जुनः । इति मेदिनी । से, २९ ॥
बीभत्सः, त्रि, (बीभत्सा घृणास्त्यत्र । अर्श- आद्यच् ।) क्रूरः ॥ (यथा महाभारते । १ । १ । २१० । “यदाश्रौषं द्रोणपुत्त्रादिभिस्तै- र्हतान् पाञ्चालान् द्रौपदेयांश्च सुप्तान् । कृतं बीभत्समयशस्यञ्च कर्म्म तदा नाशंसे विजयाय सञ्जय ! ॥”) घृणात्मा ॥ (यथा, मार्कण्डेये । १६ । १८ । “तथापि प्रणता भार्य्या तममन्यत दैवतम् । तं तथाप्यतिबीभत्सं सर्व्वश्रेष्ठममन्यत ॥”) विकृतिः । इति मेदिनी । से, २९ ॥ (यथा, -- “दुष्टेर्दोषैः पृथक्सर्व्वैर्बीभत्सालोकनादिभिः ।” इति माधवकरकृतरुग्विनिश्चये छर्द्द्यधिकारे ॥ बीभत्सालोकनं विकृतिदर्शनमिति तट्टीकायां विजयरक्षितेनोक्तम् ॥) पापी । इत्यजयः ॥ शृङ्गाराद्यष्टरसान्तर्गतषष्ठरसः । तत्पर्य्यायः । विकृतम् २ । इत्यमरः ॥ तस्य लक्षणादि यथा, साहित्यदर्पणे । ३ । २६३ । “जुगुप्सा स्थायिभावस्तु बीभत्सः कथ्यते रसः । नीलवर्णो महाकालदैवतोऽयमुदाहृतः ॥ दुर्गन्धमांसपिशितमेदांस्यालम्बनं मतम् । तत्रैव कृमिपाताद्यमुद्दीपनमुदाहृतम् ॥ निष्ठीवनास्यबलननेत्रसङ्कोचनादयः । अनुभावास्तत्र मतास्तथास्युर्व्यभिचारिणः ॥ मोहोऽपस्मार आवेगो व्याधिश्च मरणादयः ॥” अस्य रसस्योदाहरणं यथा तत्रेव । “उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोथ- भ्रूयांसि मांसा न्यंसस्फिक् पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । अन्तःपर्यस्तनेत्रः प्रकटीतदशनः प्रेतरङ्कः कराङ्का दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्र- मत्ति ॥”) वैकृतञ्च । यथा । अतिशीलितपारुष्यमभि- शिक्षितवैकृतमित्यभिनन्दः । द्वयमिदं रसे क्लीवम् । तदालम्बने तु मांसशोणितादौ त्रिषु । इति तट्टीकायां भरतः ॥
