बुक्कम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बुक्कम्, त्रि, (बुक्कयति बुक्बुक् इत्यव्यक्तशब्दं करो- तीति । बुक्क + पचाद्यच् ।) वक्षोऽभ्यन्तरमांस- विशेषः । तत्पर्य्यायः । अग्रमांसम् २ हृदयम् ३ हृत् ४ । इत्यमरः । २ । ६ । ६४ ॥ केचित्तु बुक्कात् पृथगेव हृदयान्तर्गतमांसविशेषे पद्मा- कारे हृदयादिद्वयमाहुः । धातोरनेकार्थत्वात् बुक्क्यते स्वादुत्वात् मृग्यते बुक्कं बुक्क किं श्वादि- शब्दे घञ् । नान्तः पुंलिङ्गोऽप्ययम् । स्त्रीलि- ङ्गाऽपीत्येके । इति स्वामी ॥ बुक्का स्त्री बुक्कः पुमानपि । शोणितेषु स्त्रियां बुक्का बुक्कस्तु समये द्वयोरिति रभसात् । नदादित्वात् स्त्रियां बुक्वीत्यन्ये । बुक्कनान्तं क्लीवमव्युत्पन्नमितिरुद्र- कलिङ्गादयः ॥ उरस्यपि च बुक्कायां हृदयं मानसेऽपि चेति त्रिकाण्डशेषः ॥ बुक्कशब्दस्य उकारस्य ऋकारादेशे तथैव बृक्कादिरूपञ्च । अग्रञ्च तन्मांसञ्चेति अग्रमांसं बुक्कस्याग्रं संमुखीभूतं मांसं बुक्काग्रमांसमित्येकं नामे- त्यन्ये । इति तट्टीकायां भरतः ॥
