बुद्धीन्द्रियम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बुद्धीन्द्रियम्, क्ली, (बुद्धेर्बुद्ध्यात्मकं वा इन्द्रियम् ।) ज्ञानेन्द्रियम् । यथा, -- “मनः कर्णौ तथा नेत्रे रसना त्वक् च नासिके । बुद्धीन्द्रियमिति प्राहुः शब्दकोशविचक्षणाः ॥” इति शब्दरत्नावली ॥ (यथा मनुः । २ । ९०-९२ । “श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी । पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता ॥ बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्ब्बशः । कर्म्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते ॥ एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् । यस्मिन् जिते जितावेतौ भवतः पञ्चकौ गणौ ॥”
