सामग्री पर जाएँ

बुधचक्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बुधचक्रम् क्ली (बुधस्य ग्रहविशेषस्य चक्रम् ।) बधग्रहस्य स्वसञ्चारादष्टादशदिनोत्तरराश्य- न्तरसञ्चारनक्षत्रावधिसप्तविंशतिनक्षत्रघटित- नरशुभाशुभज्ञानार्थनराकारचक्रम् । यथा, -- “भोगो मुखैकमथ मूर्द्ध्नि चतुर्षु रोगः षट्पाणिभे सुखहतं सुखदं श्रुतेऽत्र । दुःखं पदाब्धिसुयशो हृदि सप्तराज्यं नाभीन्दुभे द्बिभगलेति धनं बुधस्य ॥” इति समयामृतम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बुधचक्र¦ न॰ बुधस्य राश्यन्तरसञ्चारकाले स्वनक्षत्रस्य मुखादि-स्थानस्थितिभेदेन शुभाशुभमूचके चक्रभेदे
“भोगोमुखैकमथमूर्ध्नि चतुर्षु रोगः षट पाणिभेऽमुखहतं सुखदं श्रुते-ऽत्र। दुःख पदाब्धि सुयशो हृदि सप्त राज्यं नाभी-न्दुभे द्विभ गले निधनं बुधस्य” इति समयामृतम्।

"https://sa.wiktionary.org/w/index.php?title=बुधचक्र&oldid=390811" इत्यस्माद् प्रतिप्राप्तम्