सामग्री पर जाएँ

बुधसुतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बुधसुतः, पुं, (बुधस्य सुतः पुत्त्रः ।) पुरूरवाः । इति पुराणम् ॥ (यदुक्तं हरिवंशे । २६ । १ । “बुधस्य तु महाराज ! विद्वान् पुत्रः पुरूरवाः । तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥” अयं हि इलागर्भसंभूतः ॥ बुधस्य बुद्धदेवस्य सुतः पुत्त्र इति विग्रहे । बुद्धपुत्त्रो राहुलः । स तु यशोधराया गर्भसम्भूतः ।)

"https://sa.wiktionary.org/w/index.php?title=बुधसुतः&oldid=153319" इत्यस्माद् प्रतिप्राप्तम्