बुधाष्टमी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बुधाष्टमी, स्त्री, (बुधवारयुता अष्टमी । शाक- पार्थिवादित्वात् समासः । “अष्टमीबुधवारेण पक्षयोरुभयोर्यदा । भविष्यति तदा तस्यां व्रतमेतत् कथा पुरा ॥” इति वचनादस्यास्तथात्वम् ।) व्रतविशेषः यथा । बुधाष्टमीव्रतं चैत्रपौषहरि- शयनादीतरकाले कर्त्तव्यम् । यदाह राज- मार्त्तण्डः । “पतङ्गे मकरे याते देवे जाग्रति माधवे । बुधाष्टमीं प्रकुर्व्वीत वर्जयित्वा तु चैत्रकम् ॥ प्रसुप्ते च जगन्नाथे सन्ध्याकाले मधौ तथा । बुधाष्टमीं न कुर्व्वीत कृता हन्ति पुराकृतम् ॥” एतद्व्रतमारब्धमपि चैत्रादौ न कर्त्तव्यमिति । यथा स्मृतिः । “मीने धनुषि देवेशे सुप्तेऽशुद्धदिने तथा । बुधाष्टमीं न कुर्व्वीत पूर्ब्बविद्धामपि क्वचित् ॥” इति व्रतकालविवेकः ॥ * ॥ अपि च । “अष्टमी बुधवारेण पक्षयोरुभयोर्यदा । भविष्यति तदा तस्यां व्रतमेतत् कथा पुरा ॥ तस्यां नियमकर्त्तारो न स्युर्दुर्गतिभाजनाः । तण्डुलस्याष्टमुष्टीनां वर्जयित्वाङ्गुलीद्वयम् ॥ भक्तं सद्भक्तिश्रद्धाभ्यां कामनायुक्तमानवः । आम्रपत्रपुटे कृत्वा यो भुङ्क्ते कुशवेष्टिते ॥ कलम्बिकाम्लिकोपेतं काम्यं तस्य फलं भवेत् । बुघं पञ्चोपचारेण पूजयित्वा जलाशये ॥ शक्तितो दक्षिणां दद्यात् कर्करीं तण्डुलान्विताम् । बुं बुधायेति बीजार्णैः स्वार्णे वा कमलादिके ॥ बाणचापधरं श्यामं दले चाङ्गानि मध्यतः । बुधाष्टमीकथा पुण्या श्रोतव्या व्रतिभिर्ध्रुवम् ॥ * ॥ पुरे पाटलिपुत्त्राख्ये वीरो नाम द्बिजोत्तमः । रम्भा भार्य्या च तस्यासीत् कौशिकः पुत्त्र उत्तमः ॥ दुहिता विजया नाम घनपालो वृषोऽभवत् । गृहीत्वा कौशिकस्तञ्च ग्रीष्मे गङ्गागतोऽरमत् ॥ गोपालकैर्वृषश्चौरैः क्रीडव्यपहृतो बलात् । गङ्गातः स च उत्थाय वनं बभ्राम दुःखितः ॥ जलार्थं विजया चागात् भ्रात्रा सार्द्धञ्च साप्य- गात् । पिपासितो मृणालार्थी आगतोऽथ सरोवरम् । दिव्यस्त्रीणाञ्च पूजादि दृष्ट्वा चाप्यथ विस्मितः ॥ स च गत्वा ययाचेऽन्नं सानुजोऽहं बुभुक्षितः । स्त्रियोऽब्रुवन् व्रतं कर्त्तुं दास्यामश्च कुरु व्रतम् । पश्वर्थमन्नपानार्थं पूजयामासतुर्बुधम् । पुटकद्वयं गृहीत्वान्नं बुभुजाते प्रदत्तकम् ॥ स्त्रियो गता गतौ तौ तु धनपालमपश्यताम् । चौरैर्हृतं गृहीत्वाथ प्रदोषे प्राप्तवान् गृहम् ॥ वीरञ्च दुःखितं नत्वा रात्रौ सुप्त्वा यथासुखम् । लग्नञ्च त्वरितं दृष्ट्वा कस्य देया सुता मया । यमायेत्यब्रवीद्दुःखात् स चायाद्व्रतसत्- फलात् ॥ स्वर्गं गतौ च पितरौ व्रतं राज्याय कौशिकः । चक्रेऽयोध्यामहाराज्यं दत्त्वा च भगिनीं यमे ॥ यमोऽपि विजयामाह गृहस्था त्वं पुरान्तरम् । नोद्धाटयान्यत्र गते यमे सा न तथाकरोत् ॥ अपश्यन्मातरं स्वां सा यामिकां पाशयातनाम् । अथोद्बिग्ना कौशिकाय आचक्षाणा विमुक्ति- दम् । व्रतं चक्रे ततो मुक्ता माता तस्माच्चरद्व्रतम् ॥” इति गारुडे बुधाष्टभ्यादि १३३ अध्यायः ॥ * ॥ विस्तरस्तु ब्रह्मपुराणोक्तबुधाष्टमीव्रतपद्धतौ द्रष्टव्यः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बुधाष्टमी¦ स्त्री॰ बुधवारयुताष्टमी शाक॰ त॰। चैत्रपौमहरि-शयभादोतरत्र शुद्धकाले चुधवारयुतार्या
१ शुक्लपक्षाष्टम्यां,
२ तत्कर्त्तव्ये व्रते च। तस्याः पूर्व्वत्वहतुः हेमा॰ व्र॰भविष्योत्तरे उक्तो यथा
“पुरा कृतयुगस्यादौ इलो राजा बभूव ह। बहुभृत्य-[Page4587-a+ 38] युतो मित्रमन्त्रिभिः परिवारितः। जगाम हिमवत्-पार्श्वे महादेवाभिशापतः। योऽसौ प्रविशते भूमौस स्त्री मवति निश्चितम्। स राजा मृगसङ्गेन प्रावि-शतदुमावने। एकाकी तुरगोपेतः क्षणात् स्त्रीत्वंजगाम ह। सा बभ्राम वने शून्ये पीनोन्नतपयोधरा। का त्वं कस्य कुतः प्राप्ता अनुरोधोऽस्ति कश्चन। तांददर्श बुधस्तन्वीं रूपौदार्य्यगुणान्विताम्। अष्टम्यां बुध-तारेण तस्यां तुष्टो बुधो ग्रहः। ददौ गृहाश्रमन्तस्या-मानीयत प्रतीषिताम्। पुत्रमुत्पादयामास योऽसौ ख्यातःपुरूरवाः। चन्द्रवंशकरो राजा आद्यः सर्वमही-क्षिताम्। ततः प्रभृति पूज्ये थमष्टमी बुधसंयुता”। सा च सम्पूर्णा ग्राह्या न भिन्ना यथोक्तं तत्रैव
“बुधाष्टमीशुभा पूर्णा यथोक्तफलदायिनी” तच्च व्रतषष्टवर्षं कार्य्यंतत्र भक्ष्यभेदादिकं च तत्रैवोक्तं यथा(
“अष्टम्यष्टविधानेन विचित्रान्नैः पृथक् पृथक्। षथमा मोदकैर्भक्ष्यैः द्वितीया धानकैस्तथा। तृतीयाघृतपूरैश्च चतुर्थी वटकैर्नृप!। पञ्चमी शुम्रका-सारैः षष्ठी सोहालकैः शुभैः। अशोकवर्त्तिभिः शुम्रैःसप्रवीं चातिवाहयेत्। अष्टनी फाणितैः पूर्णेः{??}ण्ड-वेष्टैर्युधिष्ठिर!। ” तत्र विहितनिषेधकालादि राज-मार्त्तण्डे उक्तं यथा
“पतङ्गे मकरे जाते देवे जाग्रतिमाधवे। बुधाष्टमीं प्रकुर्वी। वर्जयित्वा तु चैत्रकम्। प्रमुप्ते च जगन्नामे सन्ध्याकाले मधौ तथा। बुधाष्टमींन कुर्वीत कृता हन्ति पुराकृतमिति”। एतद्व्रतमारब्ध-ग्रपि चैत्रादौ न कर्त्तव्यं यथाह स्मृतिः
“मीनेधनुषि देवेशे सुप्तेऽशुद्धेदिने तथा। बुधाष्टमीं न कुर्वीतपूर्वविद्धामपि क्वचित्” अशुद्धदिने समयाशुद्धियुक्तदिने।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बुधाष्टमी/ बुधा f. " the 8th (day) of -B भट्टो-त्पल" , N. of a festival Cat.
