बुभुक्षितः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बुभुक्षितः, त्रि, (बुभुक्षा भोजनेच्छा सञ्जातास्य । वुभुक्षा + “तदस्य संजातं तारकादिभ्य इतच् ।” ५ । २ । ३६ । इति इतच् ।) क्षुधितः । इत्य- मरः । ३ । १ । १० ॥ (यथा, मनुः । १० । १०५ । “अजीगर्त्तः सुतं हन्तुमुपासर्पद्वुभुक्षितः । न चालिप्यत पापेन क्षुत्प्रती कारमाचरन् ॥”)
