बुसम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बुसम्, क्ली, (बुस्यते तुच्छत्वादुत्सृज्यते इति । बुस्य इरुत्सर्गे + “इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ । इति कः ।) तुच्छधान्यम् । आगडा इति भाषा । तत्पर्य्यायः । कडङ्गरः २ । इत्य- मरः । २ । ९ । २२ ॥ बुषम् २ । इति भरतः ॥ बूषम् ४ । इति शब्दरत्नावली ॥ (उदकम् । यथा, ऋवेदे । १० । २७ । २४ । “आविः स्वः कुणुतेगृहते बुसम् ॥” “बुसमुदकम् ॥” इति सायनः ॥)
