बोधः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बोधः, पुं, (बोधनमिति । बुध् + भावे घञ् ।) ज्ञानम् । इति त्रिकाण्डशेषः ॥ (यथा मार्क- ण्डेये । २६ । १ । “वर्द्धमानं सुतं सा तु राजपत्नी दिने दिने । तमुल्लापादिना बोधमनयन्निर्ममात्मकम् ॥” अयं हि बुद्धेर्जातः । तथाहि मार्कण्डेये । ५० । २७ । “बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् । व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत ॥” ऋषिविशेषः । यथा मार्कण्डेये । ७६ । २८ ॥ “तयात्र मुक्तो हैमिन्या गृहीत्वा च सुतञ्च सा । बोधस्य द्विजमुख्यस्य गृहे नीतवती पुनः ॥” सूर्य्यरूपभेदः । यथा, मार्कण्डेये । १०१ । १९ । “बोधश्चावगतिश्चैव स्मृतिर्विज्ञानमेव च । इत्येतानीह रूपाणि तस्य रूपस्य भास्वतः ॥” जागरणकालः । चैतन्यम् । यथा, मार्क- ण्डेये । ८१ । ६७ । “प्रबोधञ्च जगत्स्वामी नीयतामच्युतो लघु । बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥”)
