सामग्री पर जाएँ

बोधनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बोधनम्, क्ली, (बुध् + णिच् + ल्युट् ।) गन्धदी- पनम् । इति मेदिनी । ने, ९९ ॥ वेदनम् । विज्ञापनम् । इति बुधधात्वर्थदर्शनात् ॥ (उद्दी- पनम् । यथा माघे । ९ । ३४ । “समयेन तेन चिरसुप्तमनो- भवबोधनं समबोधिषत ॥” “मनोभवस्य कामस्य बोधनं उद्दीपनं यस्मिन् ।” इति तट्टिकायां मल्लिनाथः । ज्ञानम् । यथा, रघौ । ९ । ४९ । “परिचयं चललक्ष्यनिपातने भयरुषोश्च तदिङ्गितवोधनम् ॥” “तेषां चललक्ष्याणां इङ्गितस्य चेष्टितस्य भयादिलिङ्गभूतस्य बोधनं ज्ञानं च करोति ।” इति तट्टीकायां मल्लिनाथः ॥) दुर्गाया बोधनं यथा । देवीपुराणे । “इषे मास्यसिते पक्षे कन्याराशिगते रवौ । नवम्यां बोधयेद्देवीं क्रीडाकौतुकमङ्गलैः ॥” अत्र कृष्णादित्वादिषे इत्यपि गौणाश्विनपरम् । अतएव कालकौमुद्यादिधृतम् । यथा, -- “कर्किण्यर्के हरौ सुप्ते शक्रध्वजक्रियाश्विने । तुलायां बोधयेद्देवीं वृश्चिके तु जनार्द्दनम् ॥” इति ॥ बोधयेदिति शेषः । तत्रापि नवमीबोधनं कन्यायामेव तथैव सम्भवात् तेन सिंहार्के तुलार्केऽप्याश्विनत्वेन वाक्यरचनां । एवं प्रति- वर्षं कर्त्तव्यत्वादार्द्रादिनक्षत्रालाभेऽपि बोध- नादिकार्य्यम् । नक्षत्रयोगस्तु फलातिशयाय । तथा च लिङ्गपुराणम् । “मूलाभावेऽपि सप्तम्यां केवलायां प्रवेशयेत् । तथा तिथ्यन्तरेष्वेवमृक्षेषु च फलोच्चयः ॥” यथाह देवलः । “तिथिनक्षत्रयोर्योगे द्वयोरेवानुपालनम् । योगाभावे तिथिर्ग्राह्या देव्याः पूजनकर्म्मणि ॥” कृष्णनवम्यामार्द्रायोगो विधौ मन्त्रे च श्रूयते । तथा च लिङ्गपुराणम् । “कन्यायां कृष्णपक्षे तु पूजयित्वार्द्रभे दिवा । नवम्यां बोधयेद्देवीं महाविभवविस्तरैः ॥” चतुर्थपादे गीतवादित्रनिः स्वनैरिति कालिका- पुराणे पाठः । “इषे मास्यसिते पक्षे नवम्यामार्द्रयोगतः । दिने सायं षष्ठ्यलाभस्तदा परेऽहनि पूर्ब्बाह्णे षष्ठ्यां बोधनम् । “बोधयेद्विल्वशाखायां षष्ठ्यां देवीं फलेषु च । षष्ठ्यां बोधने तु न क्षत्रानुपदेशान्न तदादरः ॥” इति तिथ्यादितत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=बोधनम्&oldid=153364" इत्यस्माद् प्रतिप्राप्तम्